SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१८ श्री वर्षमानरिविरचितं [स. ३.७३३–७४४] अमेयमहिमा मर्त्यैर्मेय मुल्लङ्घन्यतामिति । पारणो भोपो रत्नपीठमकारयत् ।। ७३३ ॥ ते मित्रमुनयो ऽन्यत्र स्वलब्ध्या कृतपारणाः । अनुजग्मुर्विभुं ब्रह्मव्रतं साधुगुणा यथा ॥ ७३४ ॥ जिनेन्द्रो ऽपि जयं कर्तु कर्मारीणां क्षमाचरः । विजद्वाससिधारावतपस्तीत्रं दधद्भुवि ।। ७३५ ॥ इवारिणस्तोमे वेगं पवनवद्रहन् । नाम्ना पवनवेगो ऽभूद्भूपः पृथ्वीपुरे पुरे ।। ७३६ ॥ अखण्ड सुकृतः खण्डमिलायाः परिपालयन् । मित्राणामप्यमित्राणामप्यानन्दमदत्त सः ।। ७३७ ।। समये व्रतमादाय मुनेः श्रमणसिंहतः । तत्रा तीव्रं तपः प्राप स विमानमनुत्तरम् ॥ ७३८ ॥ इतथ निश्चलश्रीकं जम्बूद्वीपविभूषणे । दक्षिणे भरतार्थे ऽस्मिन्नस्ति विन्ध्यपुरं पुरम् ॥ ७३९ ॥ अवन्ध्यशक्तिस्तत्राभूद्विन्ध्यशक्तिरिति प्रभुः । चापं यस्मिन्विशद्विश्वयत्रीद्वारतां दधौ ॥ ७४० ।। गम्भीरनीरभ्रमतो यत्प्रतापभरातुराः । उपेत्य यत्कृपाणान्तर्नृपाणां ततयो ऽपतन् ॥ ७४१ ॥ रणनश्यदरिश्रेणित्वराभरतिरस्कृतैः । व्यराजे वाजिभिर्यस्य हियेव विनमन्मुखैः ॥ ७४२ ॥ अमुं कदाचिदास्थानीस्थितं वेत्रिनिवेदितः । समुपेत्य चरः कश्चिन्नरनाथम जिज्ञपत् ।। ७४३ ॥ sa भरतार्थेऽस्ति नाथ जानासि विश्रुतम् । : जावं भूपुण्यपाकेन साकेतमिति पचनम् ॥ ७४४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy