________________
[स. ३. ७२१-७३२] वासुपूज्यचरितम्
वर्त्मना दृष्टिपूतेनापरे ऽह्नि परमेश्वरः । पुरं महापुरं नाम पारणाय प्रयातवान् ।। ७२१ ॥ निभाय मधुमायान्तमुद्यन्तमिव मास्करम् । पौलिनः प्रीत्या समुत्पेतुः खगा इव ।। ७२२ ॥ तद्विभाव्य च सानन्दः सुनन्दो मेदिनीपतिः । मुक्तच्छत्रपदत्राणस्त्वरमाणो ऽभ्यगात्मभुम् ।। ७२३ ।। सुकृती सुकृताम्भोधिनातः प्रभुनिभालनात् । केशरभपास पादाब्जमार्जनैः ।। ७२४ ।। तेनाथ कृतकृत्यो म धन्योऽस्मीति च वादिना । कारितः परमान्नेन पारणं परमेश्वरः ।। ७२५ ॥ पाणिभ्यां पायसं स्वामी फलयनिन्दुनिर्मलम् | अदर्शयत्सुनन्दाय कन्दं पुण्यतरोरिव ।। ७२६ । नेदमेदुरसन्नादा दिवि दुन्दुभयस्तदा । सुनन्दामन्दपुण्याब्धिकलोलरवचारवः ।। ७२७ ।। सुनन्दमन्दिरे रत्नदृष्टिः काप्यभवद्दिवः । तदुत्सवोच्छलत्स्वर्गभ्रष्टभूषणभूरिव ।। ७२८ ।। पुष्पवृष्टिरभूह्योम्नस्तं दातारं तदाद्भुतम् । अर्चितुं कल्पवृक्षाधिदैवतैरिव कल्पिता ।। ७२९ ॥ सुनन्दकीर्तिधूतानां सुरद्रुकुसुमस्रजाम् । मकरन्दैरिव दिवो दृष्टिर्गन्धोदकैरभूत् ॥ ७३० ।। श्री सुनन्दयशोवीची वरचीवर संचयः । शचीवर मुखैर्देवैरुत्क्षिप्तः खे चलाचलः ।। ७३१ ।। इत्युत्सवेन महता मुनिर्विहितपारणः ।
जगाम काममन्यत्र भुवनत्रयनायकः ॥ ७३२ ॥
३१७