________________
श्रीवर्धमानसूरिविरचितं [स. ३.७०९ - ७२०]
सुधर्मेशः प्रभोः केशजालमालम्ब्य वाससा । चिक्षेप क्षीरजलधौ नीत्वा तीर्थत्वकारणम् ।। ७०९ ॥ दृग्निमेषोन्मेषसदृक्तद्गमागमरंहसा ।
३१६
शक्रेण प्रतिषिद्धे ऽथ तुमुले तनुशालिनाम् ॥ ७१० ।। योगं समग्र सावद्यं प्रत्याख्यामीति गीतगीः । प्रपेदे चारुचारित्रं कृतसिद्धनमस्कृतिः ॥ ७११ ।। युग्मम् ।। नारकैरपि लेभे ऽर्हद्दीक्षणेन क्षणं सुखम् । व्यजनैकभ्रमिभुवा वायुनेव श्रमातुरैः ७१२ ॥ ज्ञानं जज्ञे नरक्षेत्रमनोद्रव्यप्रकाशकम् । मनःपर्यायमीशस्य सस्पर्धमिव दीक्षया ॥ ७१३ ॥ रचिताञ्जलयः शक्रादयः सुरवरास्ततः । आनम्य नाथं जगतामिति स्तुतिमतन्वत | ७१४ ॥ जय लोकत्रयीनाथ जय लोकत्रयीगुरो । जय लोकत्रयीध्येय जय लोकत्रयीमिय ॥ ७१६ ॥ पापपङ्कावलीमज्जज्जन्तुजातोद्धृतिक्षमम् ।
मज्जन्तं कालजम्बाले धर्ममुद्धृतवान्भवान् ।। ७१६ ॥ स्वामिनामपि यः स्वामी गुरूणामपि यो गुरुः । देवानामपि यो देवस्तस्मै तुभ्यं नमो नमः ॥ ७१७ ॥ स्मिताभिर्दृष्टिभिः स्वामिन्प्रसादामृतवृष्टिभिः । ज्वलद्भवदवज्वालादाहिनः पाहि पाहि नः ।। ७१८ ।। इति स्तुत्वा जगत्पूज्यं वासुपूज्यं सुरोत्तमाः । अम्बातातौ विभोर्लोकान्संबोध्य मुमुचुः पुरे ।। ७१९ ॥ जन्माभिषेकवत्क्लृप्तनन्दीश्वरवरोत्सवाः ।
प्रापुर्निजं निजं धाम ते ऽथ स्वर्धामशेखराः ॥ ७२० ॥