________________
[स.३.६९७-७०८] वासुपूज्यचरितम्
३१५
-EIN जपा
य
बाल्यरागसिंचामोक्तुमारेभे भूषणव्रजम् ।। ६९७n नकाकिनी बराकी में युक्तं मोक्तुम कृतिः। इतीव मुमुचे सेत्यं ससहाया तदाहता ।। ६९८ ॥ पूर्व मुमोच मुकुटं छत्रच्छायेच्छया समम् । स्वामी धम्मिल्लपुष्पौघं युतं स्नानमनारयः ।। ६९९॥" तत्याज कुण्डली सार्क चटुश्रुतिकुतूहलैः । ताम्बूलं च जिनः सद्यः सावधवचनान्वितम् ॥ ७०० ॥ हारमुत्तारयामास बन्धुस्नेहवृतं विभुः। अङ्गदौ भुजदर्पण सहामुक्षन्मुमुक्षुराट् ॥ ७०१॥ जिनो ऽमुञ्चत्कराकल्पान्सत्रं शस्त्रग्रहादरैः।। प्रणतव्यूहमोहेन सार्धं चांघ्रिविभूषणम् ॥ ७०२॥ इति भूषणमुक्तो ऽपि भगवाञ्शुशुभे ऽधिकम् । शोभा हुन्त्येव रत्नस्य चन्दनादिविलेपनम् ।। ७०३ ॥ त्यक्तपट्टांशुको ऽप्यन्बभौ स्पष्टवपुः प्रभुः। प्रीणयन्विश्वनेत्राणि मेघमुक्त इवार्यमा ॥ ७०४॥ रहस्यं सुकृतस्येव सूक्ष्मं श्लक्ष्णसितं सरुक् । स्कन्धदेशे विभोर्देवदूष्यं देवपतिबंधात् ॥ ७०५ ॥ जयां च वसुपूज्यं च सप्रश्रयमथ प्रभुः । आपछ्यातुच्छवाष्पौधरुद्धदृष्टिं पटूक्तिभिः ॥ ७०६ ॥ फाल्गुने वारुणे धिष्ण्ये पूर्वाहे ऽध कुहूतिथौ। . . स्वामी चतुर्थतपसा पमित्रशतैः सह ।। ७०७॥ मूलादुन्मूलयामास पञ्चभिर्मुष्टिभिः कचान् । विषयक्ष्मारुहां दुःखफलदानामिवाङ्कारान् ।। ७०० ॥
त्रिभिर्विशेषकम् ॥