SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३१४ श्रीवर्षमानमारिविरचितं [स,३. ६८६-६९६] सिंहासनमथारोहद्विश्वपातकघातकः । विवेकमिव तीर्थेशधर्मः सहजनिर्मलः ॥ ६८६ ॥ अथोत्क्षिप्ता नरैः सारशृङ्गारैः सुकुलोद्भवैः ।। मुख्यैः सहस्रसंख्यैः सा शिबिका भक्तिभासुरैः ॥ ६८७ ॥ पूर्वस्मिन्नमरास्तस्यामसुरा दक्षिणे क्षणात् । पथिमे गरुडाः पार्षे ऽलगन्नागास्तथोत्तरे ॥ ६८८ ॥ भम्भादुन्दुभिनिःस्वातभेरीशङ्खपुरःसरम् । वादयद्भिस्तदा कश्चित्तूर्य तारतरस्वरम् । ६८९ ॥ जितो जितो भवाभिख्यः शत्रुरद्योति संमदात् । कैचित्स्त्रस्वायुधोल्लासलालसैरग्रयायिभिः ॥ ६९० ॥ कैश्चित्करेषु विभ्रद्भिः शुभ्रां छत्रपरम्पराम् । दर्शयद्भिरिव स्वामिसेवया पुण्यवर्णिकाम् ॥ ६९१ ॥ उद्दामचामरमरुत्पूरदूरप्रसर्पणैः । उत्कल्लोलं क्तिन्वद्भिः कैचित्पुण्यपयोर्णवम् ॥ ६९२ ॥ उत्तालतालसन्ताग्रजाग्रन्मारुतचारुभिः । प्रतापदीपं मोहस्य लुम्पद्भिरिव कैश्चन ॥ ६९३ ॥ कैश्चित्कृष्णालिपातेन विश्वासजननीरिव । कलयद्भिः सजः पापवजानामिव वागुराः ॥ ६९४ ॥ आनन्दामृतगण्डूषनिभस्तवनलीलया । स्तुवद्भिः कैवनाप्युबैः सुरासुरनर्टतः ॥ ६९५ ॥ जीव नन्द जयेत्याशीर्गिरा पौरजनैः स्तुतः । विहारगृहनामानमाराममगमाद्विभुः ॥ ६९६ ॥ अष्टभिःकुलकम् ।। प्रभुर्यानादथोत्तीर्य सूर्यः पूर्वाचलादिव ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy