________________
३१२ श्रीवर्धमानसरिविरचितं [स.३.६६३-६७३]
मालतीमुकुले युक्तं किं कुकूलानिमोचनम् । योग्यं वा नलिनीनाले कचित्क्रकचदारणम् ॥ ६६३ ।। वरं क्षौमाम्बरे किं स्यात्कर्करोत्करबन्धनम् । उच्चैर्मरिचचूर्णस्योचितः क्षेपः किमीक्षणे ॥ ६६४ ॥ काचकुम्भे किमु श्रेष्ठं हठान्मुद्रताडनम् ।। किं रम्भास्तम्भगर्भे सिघातपातः सतां मतः ॥ ६६५ ।। अस्मिशिरीषपुष्पाग्रसुकुमारे कुमार किम् । केशोन्मूलनमुख्यानि कष्टानीष्टानि ते ऽङ्गके ॥ ६६६ ॥
चतुर्भिः कलापकम् ॥ अथाहाहन्मुधासारं विश्वतापहरं वचः । अहृयैः खियसे मातः किमेभिः कुविकल्पनैः ॥ ६६७॥ सौकुमार्य बहिःस्पर्शे सारत्वं चान्तरं स्थिरम् । अर्हतां जायते ऽङ्गेषु वजेष्विव जनोत्तरम् ।। ६६८॥ इति श्रुत्वा व्रतार्थित्वे मत्वा नाथस्य निश्चयम् । जगाद भगवत्पूज्यां वसुपूज्यनृपो जयाम् ॥ ६६९ ।। धन्यां मन्यामहे देवि त्वामेव भुवनत्रये । सुरासुरनरेन्द्राय॑ः सूनुर्यस्या जिनो ऽजनि ।। ६७० ॥ ततः स्वकीयपुण्यैकमासादस्याधुनाद्भुतम् । अर्हद्दीक्षानुमत्या त्वं कलशारोपणं कुरु ॥ ६७१ ॥ एवमुक्तावदन्मुक्ताकान्तिकान्तान्वया जया । मत्पुत्रस्य भवत्विष्टं हृष्टास्म्येतावताप्यहम् ॥ ६७२ ॥ ततः कृताञ्जलिः स्वामी तावापृच्छय प्रमोदतः । सांवत्सरिकमारेभे दानं सर्वाहतां मतम् ॥ ६७३ ॥ आसमुद्रममुद्रं तद्दानं दातुमिलातले ।