________________
वासुपूज्यचरितम्
नवे वयसि दीक्षार्थमित्थं जल्पन्भवानभूत् । प्रातर्वैका लिकं याचन्निव मुग्धास्यहास्यकृत् ।। ६५१ ॥ एकादशभिरद्भिः श्रीनाभेयपुरःसरैः ।
[स. ३. ६५१-६६२]
३११
राज्यं विधाय जगृहे व्रतं ते ऽपि शव ययुः ।। ६५२ ।। त्वं जिनो द्वादशस्तावद्गमिष्यसि शिवं ध्रुवम् । · दूर्ध्वं तु गतिर्नेति राज्यं प्राज्यसुखं भज ।। ६५३ ॥ अथ दन्तां मुक्तास्रग्भूषिता भारती परा । वितेने श्रीजिनेन्द्रेण मातापित्रोः प्रबोधिनी ।। ६५४ ॥ सत्यं यद्दुःसहा मद्वाक् परं मोहवृतात्मनाम् । यथा व्यथाकरी विश्वनेत्ररुग्नेत्र रोगिणाम् ।। ६५५ ।। Maa art या दीक्षा नैव हास्याय सा सताम् । न हि पीयूषपाने ऽपि प्रस्तावः प्रेक्ष्यते बुधैः ॥ ६५६ ॥ भोक्तुं भोगफलं कर्म राज्यं चक्रे जिनैः पुरा । तदेवमेव मे छिनं तन राज्ये कृते फलम् ।। ६५७ ॥ राज्ये ऽपि न सुखं यस्मादुःखमैश्वर्यमानतः । रसाधिक्याजुमानेन व्याधयः पीडयन्ति यत् ॥ ६५८ ॥ तस्मान्मोहं परित्यज्य पूज्यौ सज्जं व्रताय माम् । सर्वथैवानुमन्येथामिहार्थे ऽस्मि कृताञ्जलिः ।। ६५९ ॥ इति श्रुत्वा गलत्सत्त्वा त्रपां त्यक्त्वा जया रयात् । तथारोदीद्यथा लोकांश्चित्रस्थानप्यरोदयत् ।। ६६० ॥ 'उत्सङ्गसङ्गिनं कृत्वा स्पृशन्ती पाणिना प्रभुम् ।
बभाषे बाष्पसंरुद्ध कण्ठा कुण्ठगिरा जया ॥ ६६१ ॥ हा वत्स मयि वात्सल्यं तत्ते के नु गतं क्षणात् । यत्वं मे दारयस्येवं हृदयं व्रतवार्तया ।। ६६२ ॥