________________
[स.३. ६२८-६३८] वासुपूज्यचरितम्
क्रीडाजलकणान्मुक्ताः स्वतनौ मनुते जनः । श्रेयोङ्गे विषयैस्तप्ते नैतपिटकपेटकम् ॥ ६२८ ॥ गीतं कामास्वटङ्कार इत्याख्याति जनो ऽल्पधीः । न त्वेवं दुर्गतिद्वारकपाटोद्घाटनध्वनिः ॥ ६२९ ॥ गीतगाने शिर कम्पः शंसायां तन्यते जडैः । महाप्रमादो ऽयमिति निषेधे ज्ञायते न किम् ॥ ६३० ॥ विश्वत्रयसमृद्ध्यापि नाप्यते जन्म मानुषम् । तदित्यं हार्यते व्यर्थमहो मोहो महानिह ॥ ६३१ ॥ तदेवं सर्वथा मूढजनप्रौढीकृतो भवः । उचितस्त्यक्तुमेवायं महतामहतात्मनाम् ॥ ६३२ ॥ तदद्यापि कियद्भोगफलं कमैदमस्ति मे । इति तत्रावधिज्ञानं प्रभुः प्रथितवांस्ततः ॥ ६३३ ।। जन्मतो वर्षलक्षेषु गतेष्वष्टादशस्वथ । कर्मभोगफलं भुक्तमिति मत्वावधेस्तदा ॥ ६३४ ॥ उच्चैनिःश्रेयसस्थानारोहणैकाधिरोहिणीम् । दीक्षा ग्रहीतुकामो ऽभूज्जितकामो जयाङ्गजः ॥ ६३५ ॥
॥ युग्मम् ॥ अस्मिन्नवसरे ब्रह्मलोकात्पश्चमकल्पतः । लोकान्तिकाख्याः सम्यक्त्वपरिणामा महर्द्धिकाः ॥ ६३६॥ स्वस्वासनप्रकम्पेन प्रयुक्तावधयः क्षणात् । ज्ञातद्वादशतीर्थेशव्रतकालाः क्रियाविदः॥ ६३७ ॥ सारस्वता अथादित्या वह्नयो वरुणास्तथा । गर्दतोयाश्च तुषिता अव्याबाधीभधा अपि ॥ ६३८ ॥ मरुतो ऽरिष्टसंज्ञाश्च नवते निर्जरबजाः ।