________________
[स. ३.५३४ - २४५] वासुपूज्यचरितम्
इत्थं विहितशृङ्गारा ताभिरुत्पाय सा रसात् । अन्तर्मातृगृहं नीत्वा हेमपीठे न्यवेश्यत ।। ५३४ ॥ इन्द्रो वर्ज्ञात्वा प्रभोरुद्वाहमङ्गलम् । आययौ सपरीवारः कालज्ञा हि सुसेवकाः ।। ५३६ ।। चमुपूज्यं पुरस्कृत्य तेन वाग्लोपभीरुणा । विवाहमङ्गलकृते कृतिनाभ्यर्थितः प्रभुः ॥ ५३६ ॥ मोक्षाध्वरोधि भोक्त्तव्यं कर्म भेत्तुं जिनो ऽप्यथ ।. कामं जित्वा तदत्रं स्त्रीं पाणौ कर्तुं मनो दधे ॥ ५३७ ॥ मलस्वेदादिमुत्को ऽपि विधिज्ञेन बिडौजसा ।
२६
૨૦:
अस्नप्यत मुदा रत्नप्रतिमास्थ इव प्रभुः ॥ ५३८ ॥ सर्वाङ्गीणं विभुर्भोगफलकर्मजयोन्मुखः । दधौ धर्ममयं वर्म चन्दनालेपनच्छलात् ।। ५३९ ।। ताद्रूप्यमेव विभ्रद्भिरत्यच्छजलजीवितैः । न मुक्ताभरणैर्भर्तुः पिहिता देहदीधितिः ।। ५४० ॥ अत्यद्भुतद्युतिः स्वामी धृतस्वच्छसितांशुकः । ज्योत्स्नावलितमाणिक्यशैलशृङ्गनिभो बभौ ।। ५४१ ॥ आरुह्य मधुरारावमैरावणमथ प्रभुः । क्षीराब्धिवीचीं बालार्कप्रतिबिम्ब इवाचलत् ॥ ५४२ ।। करौघं चामरीकृत्य च्छत्रीकृत्य च मण्डलम् । तदेन्दुलाञ्छनं भेत्तुमिव देवमसेवत ॥ ५४३ ॥ मुहुर्भङ्गल्यकलशः कलितः कुलबालया । प्रभोर्मुखाये बभ्राम शोभाभिक्षुरिवोडुपः ।। ५४४ ॥ परीक्षादक्षयेन्द्राण्या लावण्यैकनिधेर्विभोः । . मुहुरुत्तारणीकृत्य लवणं तत्यजे ऽभितः ॥ ५४५ ॥