________________
३०२ श्रीवर्धमानमूरिविरचितं [स.३. ५४६-५५६]
मूढस्य गूढं तीर्थेशवरभावमजानतः । गलगर्भिवस्येव तदा तूर्यस्वनो ऽजनि ॥ ५४६ ॥ पुरः मुरलियो ऽनृत्यध्वनद्धवलमङ्गलाः । प्रशुस्तासां प्रमोदाय दधौ हृष्टमिवाननम् ॥ ५४७ ।। मुहुर्मुहुः स्वपुत्रास्यं पश्यन्ती नृविमानगा । जगौ वृता सखीवृन्दैया धवलमङ्गलान् ।। ५४८.॥ व सुपूज्यो नृसंघट्टस्पर्धावर्धिष्णुसंमदः । वृतः शक्रादिभिर्देवैर्दिव्ययानः पुगे ऽचलत् ।। ५४९ ॥ इत्यं कृतार्थयनाथो जनालीण्य मृतप्लवैः ।
आसदन्मण्डपद्वारं पूर्वाद्वारमिवोडुपः ॥ ५५० ।। मुक्तयानः स्थितस्तत्र शक्र हस्तावलम्बनः । त्यक्तकृत्यो मुनेरात्मा ध्येयलग्न इस प्रभुः ॥ ५५१ ॥ तदा मदनरेखा तु तत्तत्कृत्योत्कराकुला। अन्तरन्तरुलूलूनामादिदेशेति योषितः ॥ ५५२ ॥ हंसि धेहि मणिस्थालं चम्पिके चन्दनं नय । आलि शालिकगान् मुश्च दधि धारय धारिणि ॥५५३॥ तरले सरलं वासः कौसुम्भं प्रगुणीकुरु । तिलकं स्थापय स्थाने मदने वदने मम ॥ ५५४ ॥ मुखरे शेखरं यच्छ स्रजः सजय सज्जने । कर्पूरे देहि कर्पूरं मृगनाभिं मृगि स्मर ॥ ५५५ ॥ किमेवं मन्दचारिण्यो यूयं किं नात्र पश्यत । नन्वयं वीक्ष्यते द्वारि वरस्त्रिजगतीवरः ॥ ५५६ ॥
पञ्चभिः कुलकम् ।। नभुलावण्यदेहार्चिस्पर्धिनौ द्वारि काप्यथ ।