SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानसूरिविरचितं [स.३.५२२-५३३] अपि श्रीवासुपूज्यस्य विवाहोपकृतौवयम् । इति रोमाश्चिता वेद्यो बभ्रुर्बद्धैर्यवाङ्कुरैः ।। ५२२ ॥ इतश्च तेनुरभ्यङ्गमङ्गनाः कृतमङ्गलाः । स्वर्णासनजुषः पद्मावत्यास्तैलैः सुगन्धिभिः ॥ ५२३ ॥ उद्वर्तयांबभूवुस्ता हृष्टाः पिष्टातकैरिमाम् । अस्या मन इव स्वामिगुणालीगानमङ्गलैः ।। ५२४ ॥ अङ्गेषु नवसु न्यस्तमङ्गल्यतिलका बभुः । तस्यां नवग्रहीतोषा इव स्वामिकरग्रहे ।। ५२५ ॥ तदङ्गं भाग्यसैौधं ताः स्वस्तिकारम्भसूत्रवत् । तर्ककौसुम्भसूत्रेणास्पृशन्सव्यापसव्ययोः ॥ ५२६ ॥ वर्णके निहिता सेयं ताभिः संरुद्धचापला | ध्यायन्ती हृदि विश्वेशं योगिनीव व्यराजत ।। ५२७ ॥ वर्णकस्य विवादव तस्या उद्वर्णकः कृतः । ताभिस्तथाविधानां तद्विधीनामनुवादकृत् ॥ ५२८ ॥ स्वाम्यंशसममाणिक्यभृङ्गारस्पर्शिभिर्जलैः । हृष्यन्त्यः स्नपयामासुस्तास्तां न्यस्यासनान्तरे ।। ५२९ ।। धूपितामद्भुतैर्धूपैरासयन्नासनान्तरे । 'ताचारुचीरनिनीरशरीरचिकुरां च ताम् ।। ५३० ॥ रागस्तत्पादयोस्ताभिर्लगितो ऽलक्तकच्छलात् । वीतरागे ऽप्यहं योज्यो ऽनयेति विनयीव सः ।। ५३१ ।। सा ताभिश्चन्दन श्वेतं चीरमौक्तिकभूषणैः । स्वामिप्राप्तिस्फुटीभूतैरिव भाग्यैरलंकृता ।। ५३२ ॥ ताभिर्निदधिरे तस्याः केशेषु कुसुमस्रजः । प्रभुभीत्या स्मरेणेव गोपयामासिरे शराः ।। ५३३ ॥ ३००
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy