________________
श्रीवर्धमानविरचित [स. ३.४९८-५०९
कारयन्प्रभूरूपाब्धौ जलकेलिमिवाक्षिणी । लोलयन्मौलिमुविन्दुरिति सभ्यस्तिदाभ्यधात् ॥ ४९८ । तत्प्राच्यैः फलितं पुण्यैर्दृष्टश्चित्रे ऽपि यत्प्रभुः । फलत्विदानीं तद्वीक्षापुण्यं तन्मूर्तिदर्शनात् ।। ४९९ ॥ इमां पुण्यद्रुमफलं ढौकनीकृत्य कन्यकाम् । श्रीवासुपूज्यं पश्यामो यामचम्पापुरीं द्रुतम् ।। ५०० ।। अथ सभ्यैरनुमतः प्रहृष्टैर्हृष्टरोमभिः । सैन्यारब्ध महीकम्पश्वम्पायै प्राचलन्नृपः ॥ ५०१ ॥ भवद्भयां चित्रलेखातश्चित्रमीदृग्विधाप्यताम् । अयं मे दीयतां दृष्टिहृत्माणालम्बनं पटः ॥ ५०२ ॥ इत्यर्थित पितुनं कन्यायै किन्नरों पटम् । प्रदाय चित्रलेखार्थं जग्मतुर्नृपसत्कृतौ ।। ५०३ ॥ युग्मम् ॥ कन्यामुखेन्दुविच्छायमार्ग नद्यम्बुजवजः ।
त्वन्मित्रं त्वामयं स्वामिन्नृपः सत्वरमेति सः ।। ५०४ ।। श्रीचम्पेश भवदेशसीमानं समुपेयुषा । तेनाहं प्रहितस्तुभ्यमिति ज्ञापयितुं पुरः ॥ ५०५ ॥ अथ श्रीवसुपूज्यो ऽङ्गलग्नं भूषणमद्भुतम् । ददौ मुदा सुवेगाय निःशेषं शेखरं विना ॥ ५०६ ॥ पश्यन्नुत्पश्यवदनान्प्रसादोर्मिस्पृशा दृशा । अभ्यधाच्च सुबुद्धयादीन्सचिवान्भूशेचीवरः ॥ ५०७ ॥ अहो श्री वासुपूज्यस्योद्वाहचिन्ता च मे ऽभवत् । कन्यारत्न मिहायातं सुवेगश्च न्यवेदयत् ।। ५०८ ॥ कार्यारम्भे ऽनुकूलार्थ संपत्तिः शकुनं महत् । इत्थं ग्रन्थार्थ एवायमुत्साहयति मामिह ।। ५०९ ॥
२९८