________________
सि.३.४८६-४९७] वासुपूज्यचरितम्
किं याति वारिजातेषु पारिजातमधुव्रतः ॥ ४८६ ॥ चिरं परिचयोत्कर्षवशंवदहृदो पुनः। .. भवन्तमन्तःकरणपीत्यैव द्रष्टुमागतौ ॥ ४८७॥ अथ भूपो ऽभ्यधाद्नेयं यदि तस्याग्र एव वाम् । क तन्मे कर्णयोर्युष्मद्गीतपीयूषपारणम् ॥ ४८८ ॥ अवोचतां च तौ भक्त्याभ्यर्थिताप्सरसां वरा ।। चित्रलेखा पटे न्यस्य प्रभो रूपमदत्त नौ ॥ ४८९ ॥ वहावहे सहावां तद्विश्वस्त्रैरविहारिणी। गायावो यत्र तत्रापि तत्पुरस्कृत्य कौतुकात् ॥ ४९० ॥ तत्ते ऽस्मद्गीतशुश्रूषा यदि पीठं विमुश्च तत् । इहारोपय भूपाल रूपचित्रपटं विभोः ॥ ४९१ ।। इत्युक्ते कौतुकी भूपः प्रभुरूपनिरूपणे । भद्रासनपरीहारमेवोत्तरमदत्त सः ॥ ४९२ ॥ तौ मुदाकृष्य धम्मिल्लादिव्यमाल्यार्चितं ततः । न्यस्य सिंहासने चित्रपटं भर्तुरंगायताम् ॥ ४९३ ॥ सभासदां प्रभो रूपं पश्यतां शृण्वतां गुणान् । एहिरेयाहिरांचक्रे चित्तं चक्षुःश्रवोन्तरे ॥ ४९४॥ मुक्तापरेन्द्रियग्रामं स्वामिरूपदि क्षया । वेगादक्षिगवाक्षे ऽगात्पद्मावत्या मनः पुनः ॥ ४९५ ॥ त्रैलोक्यकल्पनाकल्पद्रुमस्त्वमभिगीयसे । तन्मे त्वदंघ्रिदासीत्वसंकल्पं पूरय प्रभो ॥ ४९६ ॥ इति ध्यानमयाम्भोधिमध्यमज्जितमानसा । प्रभुरूपातिरेकश्रीलीननेत्रैव सा स्थिता ॥ ४९७ ॥
॥युग्मम् ॥