________________
श्रीवर्धमानसूरिविरचितं [स. ३. ४७५ - ४८५ ]
मुखेन्दुभयतः पद्मे बद्धकोशे इव स्थिते ।। ४७५ ॥ लीलाधः कृतजेतव्य किङ्किलिकिसलघुती । द्योतते यत्क्रमौ वद्धमाणिक्यमुकुटौ नखैः ॥ ४७६ ॥ यांग्रहीज्जितयोर्यानशोभया कुम्भिहंसयोः ।
कुचाभ्यां कुम्भ सौभाग्यं नूपुर/भ्यां रवश्रियम् ||४७७|| जितं त्रिभुवनत्रैणमनयेति स्मरो नृपः । जैत्रपत्रं ददौ यस्याः कबरीदण्डदम्भतः ॥ ४७८ ॥ सा कृतस्फारशृङ्गारा शृङ्गाररसजीवितम् । कदाचित्पितुरुत्सङ्गमङ्गीचक्रे सभाजुषः || ४७९ ॥ अत्या भविष्यति पतिः को नाम त्रिजगद्गुरुः । इति चिन्ताचया चान्तस्वान्तो यावदभून्नृपः ॥ ४८० ॥ पुरा परिचितं किंचिद्विपञ्च/स्थापित स्वरम् । तावदिवः सभागर्भमभ्यगात्किन्नरद्वयम् ॥ ४८१ ॥ ॥ युग्मम् ॥
८२९६
अहो आगम्यता मागम्यतां कुशलिनौ युवाम् । किं चिराभ्यागतौ भूपस्तावित्याह ससंभ्रमम् ॥ ४८२ ॥ तावूचतुश्चतुः सिन्धुपूत भूतलभूषणः । लोकोत्तरगुणग्रामो विश्वव्यामोहमोहनः ॥ ४८३ ॥ रूपश्रीसतताहूतपुरहूत पुरन्ध्रिदृक् ।
भानोः प्रभातशीताभिः प्रभाभिरिव निर्मितः ॥ ४८४ ॥ गुणागुणविशेषज्ञो ऽनन्यसामान्यदानकृत् । आवाभ्यां सेव्यते भूप चम्पाभूपसुतो ऽधुना ॥ ४८५ ॥
| त्रिभिर्विशेषकम् ॥
गेयः स एव तस्याय एवंदृनिश्चयश्च नौ ।