________________
.
.
.
.
.
.
.
....
.
[स.३,४६३-४७४] वासुपूज्यचरितम्
इतीवाद्भुतसौरभ्यचारुः श्वसितमारुतः ॥ ४६३ ॥ वीज्यमानस्य विश्वन लोचनाञ्चलचामरैः। यत्कण्ठो मुखराजस्य वेत्रासनमिवेक्ष्यते ॥ ४६४ ॥ प्रवर्धमानयोर्यस्याः प्रकामं कर्णपाशयोः। स्थानं दातुमिवाभूतामंसौ किंचिनताकृती ॥ ४६५ ॥ यद्धाहुलतयोर्लोलदङ्गुलीपल्लवश्रियोः। नखांशुपुष्पयोः कश्चित्पुण्यात्मा लप्स्यते फुलम् ॥ ४६६॥ यदुरःस्थायिनः कामभूपस्योपायनीकृतम् ।। यौवनेनेव वक्षोजबीजपूरफलद्वयम् ॥ ४६७ ॥ अतीव कृशतां बिभ्रच्छुभ्रप्रतिपदिन्दुवत् । यन्मध्यदेशो लोकेन श्रुत एव न वीक्षितः ॥ ४६८ ॥ रतिप्रीतिस्मरैर्गन्तुं यन्मध्यावनि संकटे । हस्तालम्बनदण्डाभं सज्जीचक्रे वलित्रयम् ॥ ४६९ ॥ रक्षादक्षफणिप्रख्यलक्ष्यरोमालिशालिनी । यस्या लावण्यपीयूषकुण्डाभा नाभिराबभौ ॥ ४७० ॥ मनोभूमत्तमातङ्गवेगप्रसरसैकतम् । राजते जवनं यस्या रोमालीमदरेखया ॥ ४७१ ॥ यस्याः किं वर्ण्यते तन्व्या नितम्बः स्तम्बडम्बरः । यस्मादाविर्भवत्युच्चैः स्फारः शृङ्गारभूरुहः ॥ ४७२ ।। मकरध्वजसाम्राज्यतुल्यमङ्गल्यकारणम् । राजत्यूरुयुगं यस्या रम्भास्तम्भद्वयोपमम् ॥ ४७३ ॥ यस्या जड्ड मिथो वीक्ष्य मन्यमाने स्वमद्भुतम् । हर्षेण हसतः कूजन्मुक्तामञ्जीरकान्तिभिः ॥ ४७४॥ किंचित्कूर्मोनतो यस्याश्चरणौ वरलागतेः ।