________________
[स.१.११५-१२५] वासुपूज्यचरितम्
पदे पदे ऽर्चयन्नाप पुरं नरपुरन्दरः ॥ ११५ ॥ महोत्सवमहो भूएप्रवेशावेशपेशलम् । सचिवैस्तत्पुरं चक्रे शक्रेणापीप्सितास्पदम् ॥ ११६ ॥ आलोककामवामाक्षीजालमालितजालकम् । काश्मीरनीरनीरन्ध्रच्छटाछोटितभूतलम् ॥ ११७ ॥ व्योमापगां जयन्तीभिर्वैजयन्तीभिरद्भुतम् । उत्तुङ्गतोरणस्तम्भानद्धसंमदसिन्धुरम् ॥ ११८ ॥ कृताकल्पमिवानल्पैरुच्चस्थानासनैर्जनैः ।। सहासमिव दन्ताभमुक्तातोरणकान्तिभिः ॥ ११९ ॥ दुर्जयारिजयारोहप्ररोहन्मोहसंमदः । तत्पुरं प्रविवेशाथ नृपस्तद्विपसंगतः ॥ १२० ॥
चतुर्भिः कलापकम् ॥ प्रीतिगौरैर्मुहुः पौरैः स्तूयमानः पदे पदे। लिखन्करी करेणोर्वी सविलक्ष इवैक्ष्यत ॥ १२१ ॥ खेलन् सहेलममलं कराणायमग्रहीत् । कुतो ऽप्यट्टाखटीखण्डं बीजं धर्मतरोरिव ॥ १२२॥ करात्तखटिकाखण्डः शुण्डारः स व्यराजत । स्वर्गदण्डायसंसर्गिसोमव्योमतलोपमः ॥ १२३ ॥ कि कर्तानेन करटी खटीखण्डेन सम्पति । इत्यसौ विस्मयस्मेरैः प्रेक्ष्यमाणः पुरीजनैः ॥ १२४ ॥ आत्तनागरमङ्गल्या प्रतिस्थानं मतङ्गजः । लीलालसगतिः प्राप भयालभवनाङ्गणम् ॥ १२५ ।।
युग्मम् ॥ मृग्यमाणो महाश्चनिश्चलैः खेचरैरपि । ..