________________
श्रीवर्धमानसूरिविरचितम् [स.१.१०३-११४]
स्वामिन् गजस्तवैवोक्तो मूल्यं गृहे ऽस्य न ध्रुवम् ॥१०३॥ इत्यस्मै निश्चयवते सचिवानुमतो नृपः। दत्त्वा बलेन राज्याध तं द्विपेन्द्रमुपाददे ॥१०४॥ ततः कृतेभरत्नाप्तिमङ्गलो ऽयं महीपतिः। चक्रे यात्रां जगतत्कम्पहेतुं जेतुं दिशो ऽखिलाः॥१०॥ निस्वानध्वानधूलीभिर्बधिरान्धारिविक्रमम् । - संकटीभूतभूगोलं लोलं प्रास्थित तलम् ॥१०६॥.
स गन्धसिन्धुरो बद्धरत्नपट्टः पुरो ऽचलत्। ..... मूोर्बभ्रान्तकोपाग्निरिव लोपाय विद्विषाम् ॥ १०७॥ न नेमुः सर्वतो गर्वकुशीभिः कीलिता इव । ये पुरा वैरिणस्तेषु स तत्याज कृपां नृपः ॥ १०८॥ रणेषु वारणेन्द्रस्तु स वात्यावर्तवद् द्रुमान् । लोडयामास विद्वेषिचमूस्तृणसमूहवत् ॥ १०९ ॥ द्विपेन्द्रः प्रेक्षकीभूतसकलस्वबलोच्चयः । शत्रून् स त्रासयामास द्रुतमन्दानिवामिल॥ ११०॥ दन्तघातदलद्वप्रकपाटः पाटयन्भटान् । अरीन्करीन्द्रश्चक्रे ऽ सौ दुर्गस्थानपि दुर्गतान् ॥ १११॥ इत्येष समरे ऽजैषीदन्तलक्षीकृतान्विषः। लक्षीकृतं तदस्तैः स्वं गतिवेगादलक्षयन् ॥ ११२ ॥ दिशामन्तेषु मिथ्यात्वख्यातान्प्रेक्ष्येव दिग्गजान् । जितकाशी स कुम्भीन्द्रो ववले ऽनुचलद्धलः ॥ ११३ ॥ शक्तिसाधितदुःसाधे सिन्धुरे जयबन्धुरे । तस्मिन् सविस्मयप्रेम रेमे भूमीशमानसम् ॥ ११४ ॥ तमेवेभविभुं भूपैर्जयश्रीमङ्गलागतैः ।