________________
[ स. १९२ - १०२] वासुपूज्यचरितम्
नमतो मम तोषेण सुप्रसन्नः करी करम् । सुस्वामीव दधावेष पृष्ठे कमलकोमलम् ।। ९२ ।। भूभृद्वनीं विरागीव भूभृतामवनीं प्रति । संचचालाथ संज्ञाप्य हस्ती हस्तेन मामसौ ॥ ९३ ॥ अथैनं पृथिवीलीलाचारिणं वारणेश्वरम् । वयं प्रीत्यान्वगच्छामः विवेकमिव सद्गुणाः ॥ ९४ ॥ दूरतो राजधानीनामुपकण्ठमपि त्यजन् । क्रयोत्कं भूभृतां सङ्घ लङ्घमानो बलादपि ।। ९६ ॥ मयानुगम्यमानो ऽयमेत्य नित्यप्रयाणकः । इह स्वगृहवत्तस्थौ यूथनाथो s सुस्थितः ॥ ९६ ॥ युग्मम् ॥ रक्ता कोपातिते जज्ञे यान्येषु राजसु । प्रमोददुग्धधौतेव धवला त्वयि सास्य दृक् ॥ ९७ ॥ तन्नूनमयमानिन्ये त्वद्भाग्यैरेव वारणः । ममैतदनुगामित्वान्मद्भाग्यैरसि दर्शितः ।। ९८ ।। ततः स्वसुकृतक्रीतं गृहाणैनमिभं विभो । अहं कृतार्थ एवाद्य भवद्भालनिभालनात् ।। ९९ ॥ अथ वाग्भिः सुधापान पुण्यैः कर्णेन्द्रियश्रियः । प्रीतो महीन्दुर्मन्त्रीन्द्रमुखसंमुखदृग्जगौ ॥ १०० ॥ अमूल्यमेनमानिन्ये वन्येभमयमेकतः । अमूल्यमेकतो वोचद्वचनं वञ्चनोज्झितम् ॥ १०१ ॥ तदमूल्यद्वयीदा तुरुर्वी सर्वस्वमप्यहं । दत्त्वाप्यस्यानृणीभावं न गच्छामि करोमि किम् ।। १०२ ।। इति स्थिते नरेन्द्रे ऽथ व्याहारि व्यवहारिणा ।