________________
*
श्री वर्धमानमूरिविरचितम् [स. १८०-९१]
याचते यद्वणिग्यादृग्देयं देव तदेव हि ॥ ८० ॥ किं ते मूल्यं ददामीति राशि प्रीते ऽथ पृच्छति । व्याहारि व्यवहारैकहारिणा व्यवहारिणा ॥ ८१ ॥ स्वामिन्विन्ध्याद्रिराजस्य युवराज इव द्विपः । अत्युत्तमो ऽयं विख्यातः साम्प्रतं हस्तिबन्धिषु ।। ८२ ।। स्वदारिद्रुमद्रोहकृते ऽसौ केन केन न । महोपायसहस्रेण धर्तुमारभ्यताभितः ॥ ८३ ॥ वितन्वतीभिः साम्यं वा वैषम्यं वा किमप्ययम् । वद्धुं शेके न वारीभिर्नारीभिरिव संयमी ॥ ८४ ॥ सम्यग्मत्वेनमग्राह्यं गन्धेभं गन्धवाहवत् । अवल्यत विलक्षण लक्षण करिबन्धिनाम् ॥ ८५ ॥ अथाहमधिकोत्साहः सुस्वप्नशकुनव्रजैः । अस्य बन्धाय विन्ध्याद्रिं गत्वा वासमदापयम् ॥ ८६ ॥ कथं ग्राह्यः स हस्तीति चिन्ताचकितचेतसः । मम प्रमोदमाश्च प्रचयं रचयमय ॥ ८७ ॥ मुक्तिस्पृहमसम्यक्त्वमिव मामेतदर्थिनम् । सतां प्रहसतां चित्ते चमत्कारं प्रपञ्चयन् ॥ ८८ ॥ मृदुगर्जितवाद्येन मदषट्पद्गीतिभिः । श्रियमग्रे निजक्रीडानर्तकीमिव नर्तयन् ॥ ८९ ॥ वनदेवीभिरप्येष वीक्ष्यमाणः कुतूहलात् । शनैर्वनान्ममागारमगान्नागाधिपः स्वयम् ॥
चतुर्भिः कलापकम् ॥ ९० ॥
आश्चर्योन्मत्तचित्तेन मयोत्थाय रयादय । असावपूजि प्रत्यक्षं स्वभाग्यस्येव दैवतम् ॥ ९१ ॥