________________
[ स. १. ६९-७९] वासुपूज्यचरितम्
भाग्याभोगेन भूपानां रत्नमेतीदृशं भृशम् । इति दक्षैस्तदा पुम्भिः ख्याते तत्कुम्भिगौरवे ।। ६९ ।। असामान्य गुणैर्मायो ममायमिति तस्य सः ।
कुञ्जरराजस्य सम्मुखं राजकुञ्जरः ॥ ७० ॥ युग्मम् ॥ ननादाम्बुदनादेन प्रीतः प्रेक्ष्य नृपं द्विपः । नृपस्त्वपूरि रोमाञ्चैर्वैडूरी भूरिवारैः ॥ ७१ ॥ वामं च दक्षिणं चाङ्गं शिरः कम्पनकैतवात् । मुहुरस्याद्भुतं पश्यन्निवेति ध्यायति स्म सः ॥ ७२ ॥ द्रष्टुमैरावणमसौ तद्गुणग्रहधीरिव । उच्चैस्त्वात्तु नभोगर्भगतो ऽब्द इव गर्जति ।। ७३ ।। इन्द्रेभस्पर्धया शङ्के यशोभिर्विशदीभवन् ।
इन्द्रतायोग्य भाग्यानामेवायं याति यानताम् ॥ ७४ ॥ इति ध्यायन्धराजानिः सन्मान्य व्यवहारिणम् । विधातुं दन्तिनो मूल्यं तद्विदः स समादिशत् ॥ ७५ ॥ त्रिभिर्विशेषकम् ||
निरीक्ष्य लक्षणान्यस्य द्विरदस्य विशारदाः । जगदीशं जगुर्लोलमौलयः पुलकाङ्किताः ।। ७६ ॥ शास्त्रोक्तानामदोषाणां सर्वसल्लक्षणस्पृशाम् । हस्ती दृष्टोऽयमेवाद्विरदानामुदाहृतिः ॥ ७७ ॥ भूपस्य यस्य कस्यापि स्यादसौ द्वारभूषणम् । संसाधयति दुःसाधानप्यलीलयैव सः ॥ ७८ ॥ पदं कृतयुगस्येव निरीतिः सुकृतैकभूः । एतद्दन्तिभृतो भूमिभर्तुर्देशो ऽपि शोभते ।। ७९ ।। स्वामिन्न स्यादमूल्यस्य मूल्यमस्य गजस्य तत् ।