________________
६
श्री वर्धमान मूरिविरचितम् [स. १५७-६८ ]
दन्तेन्दुद्युतिभिर्दूरान्नृणां मोहतमो हरन् ॥ ५७ ॥ प्रभो ऽयुक्तं त्वयोक्तं यद्वलेभ्यो दोर्बलं महत् । तत्तु स्यात्सफलं येन तत्पुण्यं प्रबलं न किम् ।। ५८ ॥ अथाह भूपो भूपानां शौर्यमेवार्थसाधकम् । तदादिशसि मन्त्रीन्द्र यत्पुण्यमिति किं नु तत् ॥ ५९ ॥ इत्युक्तिभाजि राजेन्द्रे मन्त्रीन्द्रो वदति स्म सः । प्राच्यधर्मपरीपाकः पुण्यमेवोच्यते ऽर्थकृत् ॥ ६० ॥ अथापृच्छदतुच्छाशः पृथ्वीन्दुरिति मन्त्रिणम् । साक्षात्तेजो ऽर्थकृत्तावद्धर्मास्तित्वे तु का प्रमा ।। ६१ ॥ मुदे दुरित विच्छेदनाद्य सभ्यस्य भूपतेः । ततः सुकृतसूचैव प्रत्यूचे सचिवेन वाक् ।। ६२ ।। राज्यं सुकृतहीनस्य तेजसा च बलेन च । अभोगसारं सारङ्गराजस्य क नु राजते ॥ ६३ ॥ भूपेभ्यः शोभते भूरि घाम स्थाम च दन्तिनाम् । यदमीषाममी यानं जानें धर्मो ऽत्र कारणम् ॥ ६४ ॥ शक्ती दीनो कुलीनो ऽङ्गहीनो ऽपि नृपपुङ्गवैः । यत्पुण्याढ्यनृपो ऽसेवि पुण्यं तेन प्रमीयते ॥ ६५॥
'तथाहि विश्वहृद्राहि महत्त्वद्याति विद्यते । क्ष्माकेलिपद्मं पद्मायाः सम पद्मपुरं पुरम् || ६६ ॥ तत्र क्षत्रिय संग्रामसत्रधाम भुवो विभुः । अभवद्भुवनाम्भोजतपनस्तपनाभिधः ॥ ६७ ॥ हस्तिरत्नं गृहीत्वात्र व्यवहारी धनावहः । कदाचिदाययौ कृष्टो भूपभाग्यगुणैरिव ।। ६८ ।।