________________
[ स. १. ४६-५६ ] वासुपूज्यचरितम्
मुहुः प्रकम्प्य मूर्धानं सभ्यैर्निविडपूर्तये । क्षेप्यमाणानि कर्णेषु तत्र सूक्तान्यधुर्बुधाः ॥ ४६ ॥ व्यवहारकृतस्तत्र देहार्चिर्याचकैरिव । रत्नैरन्योन्यसंघट्टवाचालैर्भूषिताः स्थिताः ॥ ४७ ॥ यत्सैन्यप्रोच्छलद्धूलीमये तिमिरसंचये । दधौ खद्योतपोतस्यतिं प्रद्योतनः सदा ॥ ४८ ॥ उदेष्यतः प्रतापानेर्धूमदण्ड इवोन्मुखः । यदासर्युधि शत्रुस्त्रीनेत्रैर्दृष्टो जलाविलैः ॥ ४९ ॥ कर्पूरपूरवद्येषां यशो रोदः समुद्भके ।
जज्ञे ऽरिदुर्यशःकृष्णाङ्गारसङ्गाच्चिरं स्थिरम् ।। ५० ॥ स्वाम्यादेशघनावेशरसलालसचातकाः । उन्मुखास्ते ऽपि भूपालास्तत्र तस्थुर्यथास्थिति ॥ ५१॥ चतुर्भिः कलापकम् ॥ तां भूमिभुजः स्वौ च भुजौ पश्यन्मुहुर्मदात् । राजा पद्मोत्तरो हृष्यन्नुवाच सचिवेश्वरम् ॥ ५२ ॥ यदाक्रामति दिक्चक्रं भूशको भुजविक्रमात् । तन्न चित्रं यतः सर्ववलेभ्यो दोर्बलं महत् ॥ ५३ ॥ वदामीदमयुक्तं चेत्तनीतौ दक्ष शिक्षय । यन्मत्पितामहस्यापि सर्वशिक्षागुरुर्भवान् ॥ ५४ ॥ अथामात्यपतिर्दध्यौ नृपो ऽयं भुजदुर्मदः । ततस्तत्त्वविदां हृद्भिरुपहास्यं वदत्यदः ।। ५५ ॥ नृपस्तं चिरमित्यन्तश्चिन्तयन्तमभाषत । किं न मद्रचसां किंचिद्भवद्भिर्दत्तमुत्तरम् ॥ ५६ ॥ एवं निशम्य मन्त्रीन्दुर्जगाद नृपतिं प्रति ।