________________
श्रीवर्धमानमूरिविरचितम् [स. १. ३४-४५]
सत्कृत्यामृतसिक्तानां यत्र भान्ति ध्वजाञ्चलाः । तीर्थेशवेश्मनां पुण्यद्रुमाणां पल्लवा इव ॥ ३४ ॥ वपन्तो धार्मिकाः सारं यत्र क्षेत्रेषु सप्तसु । पुण्यधान्यैगरिष्ठं स्वं कोष्ठागारं सुबिभ्रति ॥ ३५॥ यत्र स्त्रीवेणिवक्षोजवकेषु श्रीरहर्निशम् । वीरासिकुम्भिकुम्भाब्जवाससौख्येन खेलति ॥ ३६॥ . धर्मेण त्याजिता लक्ष्मीश्चापलं यद्गृहेषु यत् । कोटिध्वजाञ्चलव्याजात्तन्मूर्तमिव वीक्ष्यते ॥ ३७॥ तस्मिन्पोत्तरो राजा प्रजापालनलालसः । अभूदभूमिर्दोषाणां रोषाणामिव सन्मुनिः ॥ ३८ ॥ अंहिहस्तास्यनेत्राणि नलिन्यामान्ययं दधौ । अतो ऽस्य नलिनीगुल्म इत्याख्याभिदधे बुधैः ॥३९॥ स्वमे पमं महत्तस्मिन्गर्भस्थे ददृशे ऽम्बया । अतः सद्भिर्महापद्म इत्यस्य विदधे ऽभिधा ॥४०॥ व्योममण्डलमालिन्यच्छलकजलमालिन : बभौ छायेव यत्तेजःप्रदीपस्यारिदुर्यशः ॥४१॥ आपीय विशदं वैरिवनितानां स्मितामृतम् । उद्गारवद्यशोभारं यस्यासिः शाश्वतं व्यधात् ॥ ४२ ॥ स देहातिसंदोहसंदेहितविभूषणः । सभायां भूधनो ऽन्येधुर्भद्रासनमभूषयत् ॥ ४३ ॥ श्रीकेलिदीर्घिका संसदथ हंसकुलैरिव । रेजे राजपदाम्भोजसेवाहेवाकिभिवृभिः ॥ ४४ ॥ अमान्त्यान्तर्विनिर्यान्त्या सितया पलितच्छलात् । बुद्धया विमलबोधाद्या रेजिरे तत्र मन्त्रिणः ॥ ४५ ॥