________________
[स. १.२२-३३] वासुपूज्यचरितम्
जनस्यान्तरषवैरिजेतुस्तेजोयशाश्रियाम् । यत्रार्काः कुण्डलायन्ते द्वादश द्वादशेन्दवः ॥२२॥ विद्यते तस्य कालोदजलधिः परिधिस्थितः । विस्तृतः सर्वतो यो ऽष्टलक्षयोजनमानभृत् ॥ २३ ॥ आशापत्रेषु गीनित्यमनन्तानहतां गुणान् । लिखत्वितीय पो धत्ते मषीभावं निजाम्भसि ।। २४॥ द्वीपो ऽस्ति परतस्तस्य श्रीपुष्करवराह्वयः । यो योजनानि विस्तारे लक्षाः षोडश लक्ष्यते ॥ २५ ॥ तस्य नामार्थमत्यर्थ प्रथयन्ति वरश्रियः। माद्यन्मधुपझङ्कारैः पुष्करैः पुष्कराश्रयाः ॥२६॥ तस्यार्धे वृत्तवान्भूभृद्भासते मानुषोत्तरः। .... नित्यार्हच्चारुचैत्यानि यस्यास्ते मुकुटः स्फुटः ॥ २७ ॥ तस्मादग्विभागे ऽस्ति स्वर्णाद्रिभूमिभूषणम् । यद्भासः केसरायन्ते गगने नीलनीरजे ॥२८॥ ततः पूर्वविदेहाख्यं क्षेत्र प्राच्या प्रियं सताम् । यत्राद्वाक्सुधासेकाज्जायन्ते शिवशालयः ॥२९॥ तत्र सीतासरिद्वीचिसिच्यमानवनावनिः। अस्ति विस्तारिमङ्गल्यो विजयो मङ्गलावती ॥३०॥ विभावर्यामपि जना विभावर्याङ्गभूषणैः । ध्वस्तध्वान्तभरा यत्र यान्ति प्रान्तरवर्त्मसु ॥ ३१॥ इन्द्रनीलमयं दाम शून्ये ऽपि पतितं पथि । ... भुजगमभ्रमेणेव यत्र नादीयते जनैः ॥ ३२॥ तत्र पात्रं सुवर्णानां वर्णिन्यास्तिलकं भुवः। . निःसपत्ननृरत्नश्रीवरं रत्नपुरं पुरम् ॥ ३३ ॥