________________
श्रीवर्धमानसूरिविरचितम् [स. १. १०-२१ ]
www.
चत्वारो ऽस्य सपर्यायाः पर्यायाः कृतिनां मताः । दानशीलतपोभावनामानः कामितप्रदाः ।। १० ।। ते तु भीमभवाम्भोधिसेतवः पुण्यहेतवः । बुद्धिमद्भिर्विबुध्यन्ते महतां चरितश्रुतेः ॥ ११ ॥ अतः सत्पुरुषश्रेणिश्रवणामृतवर्षणम् । शर्मणः कार्मणं कर्ममालिन्यक्षालनक्षमम् ॥ १२ ॥ वासवानां हि यः पूज्यो वासुपूज्य इति श्रुतः । तस्य तीर्थेशितुश्चारु चरितं रचयाम्यदः ।। १३ ॥ युग्मम् ॥
अस्ति स्वस्तिनिधिः स्वर्णशैलवर्ण्यन्तरावनिः । जम्बूद्वीप इति द्वीपो लक्षयोजनविस्तृतः ॥ १४ ॥ यस्योत्तरकुरुस्थानश्चित्ररत्नमयो द्रुमः । जम्बूर्भवति मायूरच्छत्रं द्वीपजयोच्छ्रितम् ।। १५ ।। यो ऽनन्तप्रतिमो ऽप्यत्र सर्वत्राप्रतिमः क्षितौ । अनादिनिधनो ऽप्युक्तः सप्तवर्षमयो बुधैः ॥ १६ ॥ सो sस्ति कङ्कणरूपेण लवणास्वर्धिनी वृतः । द्विलक्षयोजनोन्मानो विस्तारेण निरन्तरम् ॥ १७ ॥ यो ऽन्तः कूटस्थचैत्येषु भक्त्या नित्यार्हतां पुरः । नृत्यत्यूर्मिभुजैर्नित्यं गायत्यूर्जितगर्जितैः ॥ १८ ॥ द्वीपो ऽस्ति परतस्तस्य धातकीखण्डसंज्ञकः । यः पृथुत्वे चतुर्लक्षयोजनानि समन्ततः ॥ १९ ॥ ख्यातो ऽस्मदभिधानेन द्वीपो ऽयमिति नृत्यते । यत्र रत्नमयैर्मेरुद्वयस्थैर्धातकी द्रुमैः ॥ २० ॥ यश्चकास्ति चतुःषष्ट्या विजयैः पदिकैरिष । चतुरङ्गबलयूतफलकं नयधर्मयोः ॥ २१ ॥