________________
॥ वासुपूज्य चरितम्. ॥
प्रथमः सर्गः अर्हन्तं नौमि नाभेयं कल्याणकलशं सताम् । . रेजुराम्रदलानीव यत्कर्णनिकटे जटाः ॥१॥ भक्तिरागभृतानन्तभव्यस्वान्तस्थितेरिव । विद्रुमच्छायकायो ऽसौ वासुपूज्यः श्रियेऽस्तु वः॥२॥ स्वार्थे ऽहं कमठात्कष्टं सेहे भोगी तु मत्कृते । तन्मान्यो ऽयमितीवामुं पावो मूविहन्मुदे ॥३॥ रणे ऽपि धीरा वीराः स्युर्महावीरस्त्वसौ यतः । देवीहावैर्जितो नेति यं स्तौतीन्द्रः स वो ऽवतात् ॥ ४ ॥ अन्यानपि जिनामाभिध्यायामि श्रुतदेवताम् । प्रारब्धसिद्धिफलदाश्रये कल्पतरून्गुरून् ॥५॥ सतामाहादनो धर्मः सर्वलोकोत्तरस्थितिः । जीयाजन्तुसमुद्धारव्यापाररुचिरश्चिरम् ॥ ६॥ देयाद्धर्मः स वः कामान्कामधेनूरमूर्यतः । चतस्रः क्षीरधारन्ति बुद्धिश्रीद्धिसिद्धयः॥७॥ परोपकारिणां धुर्यो धर्म एवाश्रितेषु यः। ददाति निदे॒तिं स्वस्य सत्तायामपि नि:स्पृहः ॥८॥ जयन्ति जगदुत्सङ्गरङ्गदुत्तुङ्गकीर्तयः ।। ते सन्तः सततं येषां धर्मे ऽस्मिन् रमते मतिः॥९॥