SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ श्रीवर्धमानसरिविरचितं [स. ३.३८१-१९२] जगदुत्तसकोटीरघनघर्षभयादिव । स्वामिनः पादयोर्गुल्फा वाढं गूढत्वमासदन् ॥ ३८१ ॥ द्वेषरागजितोर्जातौ शमनिर्ममभावयोः । सज्जाविव जयस्तम्भौ प्रभुजङ्घायुगच्छलात् ।। ३८२ ॥ मनैष्ठुर्येण मा पीडि मृदुपाणिद्वयं विभोः । इतीव जिननाथस्य जानुनी गूढतां मते ।। ३८३ ।। ऊरू क्रमोन्नते भर्तुरधर्मजयदिष्टयोः । तृणवद्विरतेरीर्यासमितेश्व विलेसतुः ।। ३८४ ॥ कटीतटी पृथुर्जज्ञे मध्यदेशः कृशः प्रभोः । सर्वाङ्गं क तु पूर्यन्ते तादृशाः परमाणवः || ३८५ ॥ लावण्यसरसो भर्तुः सुदृग्दृग्भृङ्गसंगतम् । रोपालिनालं नाभ्यब्जं कदाचिनोज्झितं श्रिया ।। ३८६ ।। एष्यते केवलज्ञान सार्वभौमाय सज्जितम् । श्रीवत्सच्छतो भद्रपीठं हत्याङ्गणे प्रभोः ॥ ३८७ ॥ प्रभोः पाणिद्वयी संध्यातारैस्तारकिता नखैः । पुण्येन्दोरुदयं विश्वे न्यवेदयदिवारुणा || ३८८ ॥ दोर्दण्डौ तोरणस्तम्भौ विश्वैश्वर्यैकसि प्रभोः । अंसव्याजेन कल्याणकुम्भभाजौ विरेजतुः ।। ३८९ ।। त्रैलोक्यजनचित्तानां सदा संचलतां मुदे | वर्त्मत्रयोपमं रेखाश्रयं कण्ठे बभौ प्रभोः ॥ ३९० ॥ उल्लासकारी पद्मानां शोषकारी भवाम्बुधेः । प्रभोर्मुखं तुषारांशुरपूर्वः कोऽपि दिद्युते ।। ३९१ ॥ विभोर्वक्तालये वाणी निहादोलाम्रखेलिनी । ओष्ठरत्नगवाक्षान्तर्वर्त्सना लक्षिता न कैः ।। ३९२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy