SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [स.३. ३९३-४०४] वासुपूज्यचरितम् २८९ दन्तद्युतिसुधाधारासारैर्धीरतरध्वनिः । न कस्य तापं चिच्छेद प्रभुज्ञानसुधाम्बुदः ॥ ३९३ ॥ नासा विश्वप्रभोरन्तःश्वाससौरभलिप्सया । दूरोन्नतापि पुरतो नताभून्मुखसंमुखी ।। ३९४ ।। हैम पुरःस्फुरौ न्यस्य कपोलच्छलतः प्रभोः । जेतुं धीरौ जगन्मोहं नेत्रवीरौ किल स्थितौ ।। ३९५ ।। स्वर्गापवर्गद्वारस्थाः सतां कर्मकपाटिकाः । समुद्घाटयितुं दधे कुञ्चिकाभे भ्रुवौ विभुः ।। ३९६ ॥ त्रिलोककल्पवृक्षस्य कर्णपाशौ जिनेशितुः । ध्यानज्ञानश्रियोर्लोले दोले इव विरेजतुः ।। ३९७ ॥ किं विभोः स्तौमि भालस्य शोभां यत्र निभालिते । निभालितैव धूतार्धविधुः सिद्धिशिलाखिला ।। ३९८ ।। प्रभोर्देहप्रभाविद्युन्मज्ञ्जुला कुन्तलावलिः । दुः कर्मधर्मनिर्मन्थे सतामब्दनिभा व्यभात् ।। ३९९ ॥ अश्रान्तपुण्यगन्धाम्बुदीर्घिकादीर्घकेलिभिः । सौरभं विभुर्देहं दधौ स्वेदमलोज्झितम् ।। ४०० ॥ नाथस्तथ्येन दुःकर्मापथ्यं न यदसेवत । तस्मात्तिरस्कृताशेषभोगै रोगैर्न दूषितः ॥ ४०१ ॥ प्रभोः प्राच्यतपःशाणैस्तथात्मा जान निर्मलः । यथा तत्मभयेवाभून्मां से रक्ते ऽपि शुभ्रता ॥ ४०२ ॥ कार्य नौ देहदुर्गन्धः स तु नेह भवेदिति । हियेवाहारनीहारौ विश्वादृश्यौ स्थितौ विभोः ॥ ४०३ ॥ विभोर्वक्त्रे ऽब्जमित्येत्य षट्पदाः श्वाससौरभैः । तृप्तिं प्रापुर्भ्रमेणापि जिनसेवा न निष्फल्म " १०४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy