SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ स.३. ३६९-३८०] वासुपूज्यचरितम् प्रसुप्तं मोहनिद्रायां जनं जागरयनिव। . विभुर्व्यधात्पदन्यासे घनं घर्घरकध्वनिम् ॥ ३६९ ॥ आकार्यमाणः स्वजनैर्जिनो रेजे ऽन्यतो व्रजन् । भवाभोगभिदेतेषां ममत्वं खण्डयनिव ॥ ३७० ॥ वयसा सदृशीभूय प्रभोरसदृशा गुणैः ।। देवाश्चतुर्विधाः क्रीडां चक्रुः शक्रनिदेशतः ॥ ३७१ ॥ स्फुरन्ती खामिनो मूनि विमुक्ता शुशुभे शिखा । प्रतिज्ञा तत्परस्येव संसारमथनं प्रति ॥ ३७२ ॥ येन येन यदा स्वामी रन्तुमैहत कौतुकात् । । तत्तद्रूपं तदाधाय पुरतः स्फुरितं सुरैः ॥ ३७३ ॥ पूर्व भवेष्वसंख्येषु दृष्टाभ्यस्तश्रुताः कलाः । सस्मारैवावधिज्ञानादधिपः सद्गुणोदधिः ॥ ३७४ ।। इति क्रमादतिक्रान्तः शैशवं शिवदा विभुः। भाग्येन यौवनस्व जगदानन्ददायिनः ॥ ३७५ ॥ कर्माणि यौवने जेतुं स्वामी संहननं दधौ । स वज्रर्षभनाराचं धनुःसप्ततिमानभृत् ॥ ३७६ ॥ . स्वामिनों हितलद्वन्द्वं ताम्रत्वाबुबुधे बुधैः । नूनं तस्मिन्भवे पाष्णिद्वयसो रागसागरः ॥ ३७७ ।। विरेजिरे जिनेन्द्रस्य दश पादनखेन्दवः । यतिधर्मश्रियां रत्नकल्पिता इव दर्शणाः ॥ ३७८ ।। निर्यतां पापजम्बालजालाद्दशदिगात्मनाम् । आलम्बयष्टय इव क्रमाङ्गल्यः प्रभोर्बभुः ॥ ३७९ ।। प्रभोर्भवमहानीरनिधितीरकृतस्थितेः। उन्नतौ रेजतुः पादौ निलीनकमगविध ॥ ३८ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy