SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [स. ३. ३४६-३५६] वासुपूज्यचरितम् २८५ संभूय मण्डलीभूय रासकोल्लासकेलिभिः । पदे पदे व्यराजन्त सरस्य इव सुभ्रुवः ।। ३४६ ।। ॥ चतुर्भिः कलाप्रकम् ॥ भविष्यत्यधुना शुद्धिर्ममेतीव स्मितो ऽनदत् । धर्मः सर्वेषु चैत्येषु पूजामेक्षणकच्छलात् ।। ३४७ ॥ अमान्तमिव चित्तान्तः प्रमदं प्रमदाजनः । पूर्णपात्रमिषात्पाणी विद्भूभृहे ऽविशत् ।। ३४८ ॥ प्रभोर्जनन्याः स्त्रीजातिस्तथोत्कर्षमानीयत । यथा दूर्वा नरेशो ऽपि शिरसा तृणमुप्यधात् ॥ ३४९ ॥ पाठकोलाहलोत्तालाः सबाला बालपाठकाः । पूजयामासिरे राज्ञा वहन्तः सोममातृकाम् || ३५० ।। करिष्यतः प्रभोः पुंसां भवबन्धाद्विमोक्षणम् । कासविमोचनाच्चक्रे नृपः पुण्याहमङ्गलम् ।। ३५१ ॥ क्रीडान्तरं सुतालोकक्रीडया भविता क मे । इतीव बन्धनात्क्रीडातिरथः पार्थिवो ऽमुचत् ।। ३५२ ॥ भास्वानसावसौ वेति स्वयं पश्यन्निवान्तरम् । तृतीयेऽह्नि प्रभोः प्रातर्भूपो भानुमदर्शयत् ।। ३५३ ॥ प्रभोरदीदृशद्भूपस्तस्यां निशि निशाकरम् । स बभूव सुधाष्टष्टया तद्दृष्टचैव सुधाकरः ।। ३५४ ॥ निर्निमेषदृशः कामं जिनरूपनिरूपणात् । सुखेनैव व्यधुः षष्ठीनिशाजागरमङ्गनाः ।। ३५५ ॥ नृपान्वयजनैः स्वामिजन्मनैवामलैरपि । एकादशे ऽहनि स्नातं वृद्धाचारो हि दुस्त्यजः ॥ ३५६ ॥ विविधाहारताम्बूल दुकूलाभरणार्चितैः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy