SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [स.३. ३२२-३३३] वासुपूज्यचरितम्. mmmmmmmmmmmmm.mmm चक्रिरे शक्रदिक्पालाश्चत्वारो ऽष्टाहिकामहम् ॥ ३२२ ॥ ॥ युग्मम् ।। उत्तरे रमणीयाख्ये तत्रैशानो ऽञ्जनाचले। गत्वाष्टाही हरिश्चके शाश्वतानां पुरो ऽर्हताम् ॥ ३२३ ।। ईशानस्यापि दिक्पाला वापीस्थायिषु पूर्ववत् ।। महं जिनानां नित्यानां व्यधुर्दधिमुखादिषु ॥ ३२४ ॥ दक्षिणाशास्थिते नित्योधताख्ये त्वञ्जनाचले। .... जिनानां तत्र नित्यानां चपरेन्द्रो महं व्यधात् ।। ३२५ ॥ तद्वापीमध्यसंस्थेषु तद्वद्दधिमुखाद्रिषु । . तदिक्पाला मुदा चक्रुरष्टाह्रीं शाश्वताईताम् ।। ३२६ ॥ बलिः स्वयंप्रभाख्ये तु पश्चिमास्थे ऽञ्जनाचले । शाश्वतानां जिनाधीशविम्बानां व्यरितोत्सवम् ॥ ३२७॥ तद्वापीकुहरस्थेषु चक्रुदधिमुखाद्रिषु । नित्यानां जिनबिम्बान तदिक्पाला महोत्सवम् ॥३२८॥ इति नन्दीश्वरे द्वीपे ऽष्टाह्रीं कृत्वा सुरोत्तमाः। ययुर्निजं निजं स्थानं यथागतपथावगाः ॥ ३२९ ॥ प्रबुद्धायास्तु यो देव्या हर्षो ऽभूतुत्रदर्शने । आस्तां स हृदि संकीर्णे न ममौ त्रिजगत्यपि ॥ ३३० ॥ तत्क्षणं दासदास्यङ्गरक्षका हर्षसाक्षिकाः । बद्धस्पर्धा द्रुतं वर्धापनिकाक्षं दधाविरे ॥ ३३१ ॥ वर्धसे सुतरत्रस्य उन्मना देव वर्धसे । इत्युक्तिः कापि भूभतुरुत्तरीये ऽक्षिपत्करम् ॥ ३३२ ॥ मुवर्णमालिकां दासी कर्णयोर्मे न्यधादियम् ।। इतीव भूपस्तद्नेहं सुवर्णैः पर्यपूरयत् ।। ३३३ ॥ .
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy