________________
२८२ श्रीवर्धमानमूरिविरचितं [स.३.३११-१२
सस्वर्णवलय लम्बिनानामणि हरिः। जिनेन्दोर्लोचनानन्दमुल्लोचे कन्दुकं न्यधात् ॥ ३११ ॥ न जिना जननीक्षीरं रसयन्तीति नीतिषित् । कराङ्गष्ठे विभोर्वत्री नानारससुधां न्यधात् ।। ३१२ ॥ द्वात्रिंशतं रौप्यहेमरत्नकोटीः पृथक्पृथक् । तथा द्वात्रिंशतं नन्दासनभद्रासनान्यथ ।। ३१३ ।। अन्यच्च सुखदं वस्तु नेपथ्यादि मनोहरम् । शक्रादेशाद्धनाधीशो जिनाधीशगृहे ऽसृजत् ॥ ३१४ ॥
॥ युग्मम् ॥ स्वामिनः स्वामिमातुर्वा यो ऽशुभं चिन्तयिष्यति । सप्तधा भेत्स्यते तस्यार्जकमञ्जरिवच्छिरः ॥ ३१५ ॥ इत्युक्तिं वासवादेशादाभियोगिकनाकिनः । उच्चैरुज्जुघुपुर्देवनिकायेषु चतुर्ध्वपि ॥ ३१६ ॥ युग्मम् ।। अथ पश्च समादिक्षक्षा अप्सरसः स्वयम् । पुरो विश्वगुरोर्धात्रीकर्मनिर्मितये हरिः ॥ ३१७ ॥ सुदा तदा तु निर्मातुमष्टाही बहवः सुराः । काञ्चनापलचूलापादेव नन्दीश्वरं ययुः ॥ ३१८ ॥ वज्री त्वद्गहाद्देवरमणाख्यं ययौ तदा । क्षुद्रमरुपमं नन्दीश्वरं पूर्वाञ्जनाचलम् ॥ ३१९ ॥ दिव्ये चतुर्मुखे चैत्यद्रुमेन्द्रध्वजलाञ्छिते । चैत्ये ऽष्टाह्रीमिहारेभे नित्यानामईतां हरिः॥ ३२० ॥ गिरौ तत्र चतुर्दिा महावापीस्थितेष्वथ । चतुषु स्काटिकाङ्गेषु तदा दधिमुखाद्रिषु ॥ ३२१ ।। चैत्येषु जिनविम्बानां नित्यानां महिमाद्भुतम् ।