________________
२८१
-
-
[स.३.२९९-३१०], कामपूज्यचरितम्
दिव्यैर्दुकूलः श्रीखण्डमाल्पमाणिक्यमण्डनैः। भक्तिसौधेन सौधर्मप्रभुणा, भूषितः प्रभुः ॥ २९९ ॥ अथाग्रे जिनमातेने पट्टे मणिमये हरिः।। कर्माटकक्षयायाष्टमङ्गली रूप्यतण्डुलैः ॥ ३०० ॥ स किंचिदपमृत्याय ज्वलदीपदलत्तमः । ऊधीभूतः पुरो भर्तुरारादारांत्रिकं दधौ ॥ ३०१ ॥ तजिनेन्दोः पुरः स्कारलुठत्तारमिवाथ सः। क्षिप्तपुष्पं घुसद्वारैत्रिवारमुदतारयत् ॥ ३०२ ॥ इलातलमिलन्मौलिः स पौलोमीपतिस्ततः। . विनम्य विष्टपाधीशं प्रहृष्ट इति तुष्टवे ॥ ३०३ ॥ . जय त्रिभुवनाश्चर्य जय त्रिभुवनाभय । जय त्रिभुवनानन्द जय त्रिभुवनोदय ॥ ३०४ ॥ सद्यो मयाबरखाद्य प्रपेदे भाग्यभरिषु । यत्त्वं त्रिविष्टपीतत्त्वं ददृशे द्वादशो जिनः ।। ३०५ ॥ अणुमानं मनस्तद्भर्बुद्धिस्तत्संभवं वचः। क तेन त्वद्गुणा नाथ स्तुत्या विश्वविलड्डिन्नः ॥ ३०६ ॥ त्वां प्राप्य दृश्यसीमानं स्वामिन्सुकृतप्तीमया । दृशः प्रीता न्यवर्तन्त रूपान्तरनिरूपणात् ॥ ३०७॥ कदावसर्पिणीकालव्यालकर्मविषाकुलम् । उल्लासयासे विश्वेश विश्वं वागमृतद्रवैः ।। ३०८ ॥ इति स्तुत्वा गृहोत्वेशमीशानेशाद्वतः सुरै। सौधर्माधिपतिः सूतिगृहे ऽगात्पनरूपभाक् ॥ ३०९ ॥ निवर्त्य प्रतिमां न्यस्य जिनेश मातुरन्तिके । उच्छीर्षके दिव्य वाससी कुण्डले च सः ॥ १० ॥
।
.
.
AL