________________
[स.३. २७७–२८७] वासुपूज्यचरितम्
ज्योतिषां वासवौ संख्यातीतौ रविहिमच्छवी । चतुःषष्टिरितीन्द्राणां मेरुमूर्ध्नि तदा ययौ ।। २७७ ॥ आदिष्टा अच्युतेन्द्रेणापक्रम्येशानदिश्यथ । वैक्रियेण समुद्घातेनाकृष्योत्तमपुद्गलान् ।। २७८ ॥ योजनोरुमुखान्मान् राजतान् रत्नजानपि । स्वर्ण रौप्यमणिस्वर्णमणिरौप्यमयानपि ॥ २७९ ॥ स्वर्णरौप्यमणी कृप्तान् कलशान्मृन्मयनपि । प्रत्येकं चक्रुरष्टाग्रं सहस्रं सुरकिंकराः || २८० ॥ ॥ त्रिभिर्विशेषकम् ॥
२७९
ते पात्री पुष्पचङ्गेरीस्थालभृङ्गारदर्पणान् । तद्वद्नकरण्डांश्च सुप्रतिष्ठान्व्यकुर्वत ।। २८१ ।। क्षीराब्धिपुष्कराब्धिभ्यां तदा पद्महदादपि । भरतैरावतक्षेत्र मुख्यात्तीर्थव्रजादपि ।। २८२ ।। आनिन्यिरे सम्भोजमम्भो मृद्बन्धुरं सुराः । पुष्प सिद्धार्थतुवरौषधीः क्षुद्रहिमाद्रितः ॥ २८३ ॥ युग्मम् ॥ ते ऽत्र सौमनसाद्भद्रशालानन्दनकाननात् । पाण्डुकाद्गन्धवस्तूनि नीत्वाम्भसि निचिक्षिपुः ॥ २८४ ॥ मल्लिका पाटला जातियूथिकाचम्पकोद्भवैः । मन्दारपारिजातोत्यैः पुष्पैः स्वर्णाम्बुजैरपि ॥ २८५ ॥ उत्क्षिप्तागुरुकर्पूरः स्तुतिं तन्वन्प्रभोः पुरः । अच्युतेन्द्रः सुरैः साकममुञ्चत्कुसुमाञ्जलिम् || २८६ ॥ ॥ युग्मम् ॥
ततेषु विततेषूच्चै नेषु शुषिरेष्वपि । वाद्यमानेषु वाद्येषु सर्वतो ऽप्याभियोगिकैः ।। २८७ ॥