________________
श्रीवर्धमानसूरिविरचितं [स. ३.२६५-२७६]
अग्निमाणो ऽग्निशिखश्चेन्द्रावग्निकुमारकौ । शौ वायुकुमाराणां बेलम्बो ऽय प्रभञ्जनः ।। २६५ ।। महायोषः सुशेष स्तनितानां सुराधिपौ । तथादवि कुमारेन्द्रौ जलकान्तजलप्रभौ ।। २६६ ॥ तथा पूर्णो अशिष्ट शक्रौ द्वीपकुमारकौ । वासव। दिकुमाराणाममितो ऽमितवाहनः ।। २६७ ।। महाकालञ्च कालञ्च व्यन्तराणां सुरेश्वरौ । सुरूपप्रतिरूपश्च भूतानामधिपौ हरी ।। २६८ ॥ माणिभद्रः पूर्णभद्रो वासवौ यक्षरक्षकौ । महाभीमश्च भीमश्च राक्षसाखण्डलौ वरौ ।। २६९ ॥ किन्नराणां किंपुरुषः किन्नरश्च मरुत्पती । किंपुरुपेन्द्रौ महापुरुषसत्पुरुषाभिधौ ॥ २७० ॥ अतिकायमहाकायौ महोरगमहाधिपी । गीतयोगीतरती गन्धर्वत्रिदशेश्वरौ ।। २७१ ॥
२७८
अथानज्ञप्तिपञ्चप्रज्ञप्त्यादीनां समाययुः । व्यन्तराष्ट्रनिकायानां षोडश त्रिदशेश्वराः || २७२ ॥ तत्रादेिवेन्द्रौ सन्निहितममानकौ ।
इन्द्रौ धाता विधाता च पञ्चप्रज्ञप्तिपालकौ ॥ २७३ ॥ ऋषिवादितिकाधीशावृषिश्च ऋषिपालकः । भूतवादितिकाशक्रौ तथेश्वरमहेश्वरौ ।। २७४ ॥ सुवत्सकविशालाख्यौ ऋन्दितानां सुरेश्वरौ । महाक्रन्दितिकाशक्रौ हासो हासरतिस्तथा ।। २७५ ॥ ख्यातौ श्वेतमहाश्वेतौ कूष्माण्डानां पुरन्दरौ । पावकः पावकगतिः पावकानां विडौजसो ॥ २७६ ॥