SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७६ श्रीवर्धमानमूरिविरचितं [स.३.२४३-२५३] षड्विमानसहस्रशैतों देवैरिहागमत् ॥ २४३ ॥ आनतप्राणतस्वामी विमलाख्यविमानभाक् । आजगामामरैर्युको विमानेशैश्चतुःशतैः ॥ २४४ ॥ त्रिविमानशते रारणाच्युतवासवः। इहागात्सर्वतोभद्रविमानस्थः सुराचले ॥ २४५ ॥ पृथ्व्यां रनमभानाम्न्यां बाहुल्यामध्यवासिनाम् । भवनव्यन्तरेन्द्राणामकम्पन्तासनान्यथ ॥ २४६ ॥ पुर्या चमरचञ्चायां चमरो सुरवासवः । सुधर्माख्पसभामध्ये निषण्णश्चमरासने ॥ २४७ ॥ ज्ञात्वावधेर्जनिं जैन जनज्ञप्त्यै त्ववादयत् । ५ स्ववादयत् । - घण्टां मोघस्वरां पत्त्यनीकपेन द्रुमेण सः ॥ २४८ ॥ ॥युग्मम् ।। संसद्भिस्तिमृभिर्युक्तश्चतुर्भिर्लोकपालकैः। पञ्चभिः पट्टदेवीभिर्महानीकैश्च सप्तभिः ॥ २४९ ॥ सप्तभिः पृतनाधीशैरन्यैरप्यसुरैर्घनैः। चतुःषष्टिसहस्त्रैश्च सामानिकमहासुरैः ॥ २५० ॥ प्रतिकाष्ठं चतुःषष्टिसहस्रैरङ्गरक्षिणाम् । त्रायस्त्रिंशस्त्रयस्त्रिंशत्संमितैः परमर्द्धिकः ॥ २५१ ॥ पञ्चयोजनशत्युच्चं चारुध्वजविराजितम् । . पञ्चाशतं सहस्राणि योजनान्यभिविस्तृतम् ।। २५२ ।। विमानमभियोगेन सद्यो देवेन निर्मितम् । आरुह्याभ्यचलद्भक्त्या कर्तुं जन्मोत्सवं विभोः ॥ २५३ ।। ... ॥ पञ्चभिः कुलकम् ॥ मार्गे संक्षिप्य संक्षिप्य विमानमसुरेश्वरः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy