________________
[स.३.२०९-२२०] वासुपूज्यचरितम् २७३
स्वतृत्तदर्शने देवीः स्थिता मूर्त्यन्तरिव । पाञ्चालीर्दधदस्यान्तर्जज्ञे प्रेक्षणमण्डपः ।। २०९ ॥ चतुर्योजनपिण्डाष्टयोजनायामविस्तृतिः। शोभायाः केलिशैलाभा तत्राभूद्रनपीठिका ॥ २१० ।। चलश्रीनिश्चलीकारबन्धरज्जुसहोदरैः । रत्नसिंहासनं रेजे तदुपर्येकमंशुभिः ॥ २११ ॥ अर्धमौक्तिकदामालितमौक्तिकदामभाक् । दिव्यश्चन्द्रोदयो वज्राङ्कुशभृत्तदुपर्यभूत् ॥ २१२ ॥ अन्तःपीठान्मरुद्याव्यक्षकाष्ठामु दिद्युते । चतुरशीतिसहस्रेन्द्रसमद्युसदासनैः ॥ २१३ ॥ प्राच्यां दिश्यग्र्यदेवीनामासनान्यष्ट रेजिरे । सहस्राद्वादशाग्नेय्यां चान्तःसभ्यदिवौकसाम् ॥ २१४॥ चतुर्दश सहस्राणि दक्षिणाशाविभूषणम् । आसनान्यभवनाकसदां मध्यसभासदाम् ॥ २१५ ॥ बहिःसभासदां स्वर्गवासिनामासनावलिः । षोडशानां सहस्राणां नैऋत्यामभवद्दिशि ॥ २१६ ।। सप्तसंख्यानि सप्तान सेनापतिदिवौकसाम् । आशायां पाशहस्तस्य रेजिरे सिंहविष्टराः ॥ २१७ ।। चतुर्भिरधिकाशीतिः सहस्राण्यङ्गरक्षिणाम् । औचित्येनासनान्यासन्परितो वासवासनम् ॥२१८ ॥ विमानं विरचय्यैवं त्रिदशैराभियोगिकैः । शको विज्ञपयांचक्रे तदा तदधिरोहणे ॥ २१९ ॥ अन्यैर्नानाविमानालिलासिभिः स्वर्गवासिभिः । वृतं स्फुरद्भिरम्भोज सहै: पत्रस्पैस्वि ॥ २२० ॥