SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीवर्धमानसूरिविरचितं [स.३.१९५-२०८], विमानेषु प्रतिध्वाना घण्टानां सर्वतो ऽभवन् ॥ १९७ ॥ क्रीअसतास्ततः सर्वे सावधानाः सुराः स्थिताः । घण्टानादे च विश्रान्ते सेनानीरिति घुष्टवान् ॥ १९८ ।। अमरा भारते क्षेत्रे जिनजन्मोत्सवे हरिः । गन्ता ततः प्रियायुक्ता एत त्वरितमेत भोः ॥ १९९ ॥ अथ ते प्रथितानन्दा वृन्दारकसमुच्चयाः। देवीभिः सममाजग्मुर्जिनजन्मोत्सवेच्छया ॥ २०० ॥ पञ्चयोजनशत्युच्चं विमानं लक्षयोजमम् । चक्रे संक्रन्दनादेशात्पालकः पालकाभिधम् ॥ २०१ ॥ स्तम्भैरङ्करितं कूजत्किङ्किणीभिः सकोकिलम् । मुक्तावचूलैः सत्पुष्पं पताकाभिः सपल्लवम् ॥ २०२ ॥ कलशैः फलितं रत्नप्रभाभिः सारसारणि । देवीभिः केलिशैलाध्यं जालजालैनिकुञ्जभृत् ॥ २७३ ॥ तारतोरणमालाभिलौलदोलालिमालितम् । किंचिद्गम्भीरपीठानामन्तरैर्दीर्घदीर्घिकम् ॥ २०४ ॥ सुवर्णकेतनश्रीभिधूतपुष्परजोभरम् । तज्जङ्गमं महेन्द्रस्य लीलोद्यानमिवावभौ ॥ २०५ ॥ ॥ चतुर्भिः कलापकम् ।। तत्र तिस्रो व्यराजन्त रत्नसोपानराजयः। सहारोदुमिवेन्द्रस्य मनोवाकायसंपदाम् ॥ २०६॥ आरोहतस्त्रिसोपान्यां सुरांस्तत्तोरणैखिभिः । इत्थं करम्बितकरैर्नम्यः स्वामीत्यशिक्षयत् ॥ २०७॥ वर्तुलो मध्यभूभागस्तत्र चित्रप्रभो बभौ । जम्बूद्वीप इव स्वःश्रीशेखरो जिनजन्मना ॥२०८॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy