________________
[स.३.१६३-१७३] वामपूज्यच्चशिवम
२६९ मुदिता दिकुमार्यो ऽष्टावू लोकादिहाययुः ॥ १६३ ॥ मेघंकरा मेघवती सुमेघा मेघमालिनी। सुवत्सा वत्समित्रा च वारिणा बलाहका ॥ १६४ ॥ इमा जिनं च देवीं च नत्वा योजनसंमिताम् । धरां गन्धोदकैः सिक्ता पुष्पवृष्टिं वितेनिरे ॥ १६५ ।।
ईयुरासनकम्पेन ज्ञात्वा जन्म जिनस्य तत् । पौरस्त्यरुचकादष्टौ दिकुमार्यः सदर्पणाः ॥ १६६ ॥ ताश्च नन्दोत्तरानन्दे आनन्दानन्दवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ १६७ ॥ एताः प्राच्यां दिशि स्थित्वा नत्वा मातृयुतं जिनम् । जगुर्जगन्मनोज्ञानि गीतानि प्रीतचेतसः ॥१६८ ॥ अपाच्यरुचकात्पीठप्रकम्पनाययुस्ततः । दिक्कन्या अष्टभृङ्गारशृङ्गारितकराम्बुजाः ॥ १६९ ॥ समाहारा सुमदत्ता सुप्रबद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुंधरा ॥ १७० ॥
॥ युग्मम् ॥ एताः प्रणम्य तीर्थेशं तीर्थेशजननीमपि । स्फीतागीतकलादक्षा दक्षिणस्यां दिशि स्थिताः ॥१७॥ प्रतीच्यरुचकादष्टौ दिक्कन्याः पीठकस्पतः । आययुर्व्यञ्जनाभोगभ्राजिष्णुकरपुडुजाः ॥ १७२ ॥ इलादेवी सुरादेवी प्रथिवी प्रावत्यापि । एकनासा नवमिका भदा शीतति नामतः ॥ ११३ ।। जननीसहितं ना त्रैलोक्यमदिवं जिनम् ।