________________
२६८ श्रीवर्धमानसूरिविरचितं [स.३.१५२-१६३१ रत्नं रोहणभूमीव जयादेवी जिनाधिपम् ॥ १५२ ॥
॥ युग्मम् ॥ तदा को ऽपि प्रकाशो ऽभूदपि दुर्गतिभूमिषु । निखिलानां सुखं जज्ञे नारकाणामपि क्षणम् ।। १५३ ॥ अस्माकमयमीशो ऽभूदशेषगुणसागरः ।। इत्यानन्दवशेनेव दिशः प्रापुः प्रसन्नताम् ॥ १५४ ॥ ववुः प्रदक्षिणावर्ताः कुसुमश्रीविमिश्रिताः । तन्वन्त इव सद्भक्तिं जगत्प्राणा जगत्पभोः ॥ १५५ ॥ आख्यातुमिव विश्वेषु प्रभोर्जन्ममहोत्सवम् । घनगम्भीरनिर्घोषा नेदुर्दुन्दुभयो ऽम्बरे ॥ १५६ ॥ प्रभुपादाम्बुजस्पर्शपवित्रं पृथिवीतलम् । पूजयद्भिरिवामत्यैश्चक्रिरे पुष्पवृष्टयः ॥ १५७ ॥ मत्वासनप्रकम्पेनावधिज्ञानात्प्रभो निम् । अष्टाजग्मुरधोलोकवासिन्यो दिक्कुमारिकाः ॥ १५८ ।। भोगंकरा भोगवती सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमाला त्वनिन्दिता ॥ १५९ ॥ नत्वा स्तुत्वा न भेतव्यमित्युदीर्य च ता इमाः। जिनजन्मोत्सवं देव्यै स्वागतो हेतुमभ्यः ॥ १६० ॥
॥ युग्मम् ॥ सहस्रस्तम्भमातेनुरैशान्यां प्राङ्मुखं दिशि । ताः सूतिसदनं वातपूतयोजनभूतलम् ॥ १६१ ॥ देवि त्वमेव धन्यासि यस्याः सूनुर्जगद्गुरुः । इत्यादिगीतगायिन्यस्ताः प्रभोः परितः स्थिताः ॥१६२॥ पीठकम्पात्पभोर्जन्म मत्वा मेरुनिकेतनाः ।