________________
धरार्पयत्ययः स्वामिप्रत्यासत्त्येव धर्मवित् ॥ १.१७ ॥ सुमनोभिः कृतो जातिकदम्बनवकेतकैः । एष्यात त्रिजगन्नाथे भृङ्गीगीतस्त्रियोत्सवः ॥ ११८ ।। तापशान्तिप्रसन्नायास्तदा ताइक्सुतोचिताः । आसन्देव्या मुदा बद्ध सौहृदा दोहदा हृदि ॥ ११९ ॥ एत्य त्रिभुवनस्यापि स्वामिनः प्रणमन्तु माम् । दौःस्थ्यच्छेदनिदानं च ददे दानं जगन्मुदे ॥ १२० ॥ कुर्वे वात्सल्यतः शर्म धर्मनिर्मलत्तिषु । जगत्रयभयाभोगभङ्गमङ्गीकरोमि च ॥ १२१ ॥ इत्येषु पूर्यमाणेषु दोहदेषु बलिद्विषा । प्रमोदेन समं देव्याः स गर्भो वधे क्रमात् ॥ १२२ ॥
त्रिभिर्विशेषकम् ।। यथार्भकगृहं क्रोडपरिक्रीडिनि दीपक। स्त्रियः स्वच्छांशुकं मध्यस्थिते चूडामणौ यथा ॥ १२३ ॥ अभिप्राये स्फुरत्यन्तः मुकवीनां यथा वचः। तथा गर्भस्थिते देवे तदङ्ग दिद्युते ऽधिकम् ॥ १२४ ॥
युग्मम् ॥ संतोषैकस्वभावस्य संसर्गेण प्रभोरिव । अत्यासक्तिं वितेने ऽसौ मधुरे ऽपि न भोजने ॥१२५॥ आनन्दस्मितकान्त्येव निर्यान्त्या रोमकूपकैः । कलयामासतुस्तस्याः कपोलौ धवलां कलाम् ॥ १२६ ॥ देव्याः प्राप्तो ऽपि. पुत्रत्वं स्वाङ्गष्टामृतपानकृत् । विश्वस्वामी न नौ पातत्यस्याः श्यामाननौ स्तनौ ॥१२७॥ विश्वैश्वर्ये ऽप्यनौद्धत्यभाजः मूनोर्गुणादिव ।