SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीवर्धमानसूरिविरचितं [स.३.१०६-११६] अभ्यषिश्चस्तदम्भोदकुमार्यो गन्धवारिभिः । । ऋतुदेव्यो मुदा पुष्पप्रकरानकिरनिह ॥ १०६ ॥ व्यन्तर्यस्तनुशुश्रूषां किंकर्य इव चक्रिरे । ज्योतिष्कयोपितो रत्नमयादर्शमदर्शयन् ॥ १०७ ॥ कारयांचक्रिरे क्रीडां हृयां विद्याधरस्त्रियः । कामं किन्नरकामिन्यो गीतिरीतिं वितेनिरे ॥ १०८ ॥ चतुर्मिः कलापकम् ॥ क्लिश्यतामहतो माता मा तापैर्मद्भवैरिति । तदा कादम्बिनीटन्दान्तरस्तरणिरस्फुरत् ।। १०९ ॥ जिनाधिपजनिस्नानादासना मे पवित्रता । इति हर्षादिवानृत्य दुचैरम्बु तदाम्बुधेः ॥ ११० ॥ उदेष्यति जिनाधीशे दिनाधीशे ऽरुणोदयः । पुष्पितैः पाटलारामैर्बभूव भुवने तदा ॥१११॥ जिनेन्द्रजननीपादस्पर्शात्पावनमानिनी । वात्यावर्तरजोव्याजादुद्भुजैव ननत भूः॥ ११२ ॥ गायन्तं मल्लिकाङ्गैः क्षिप्त्वा ग्रीष्मं तपात्ययः । स्वामिमातुर्मुदे मेघमर्दलौघमघोषयत् ॥ ११३॥ तेजस्त्रिभृदसौ यादृक्तादृग्नाहमिति ध्रुवम् । . जयादेव्यास्तडिद्भिधौरारात्रिकमिवाकरोत् ॥ ११४ ॥ दृष्टिसिक्ता ध्रुवं धूपधूमं वाष्पैः सुगन्धिभिः। . देव्या नृरत्नगर्भाया रत्नगर्भाप्युदक्षिपत् ११५ ॥ निवार्य वार्षिवीचीनामुच्चैः कोलाहलं दिशः । जयादेवीं स्तुवन्ति स्म केकिकेकारवैरिव ।। ११६ ॥ आनीतमब्दैहत्वाब्धेळघुव्येव नदीरयैः।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy