SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [स. ३.९४ - १०५] वासुपूज्यचरितम् विमानवीक्षणात्पुत्रो जयादेव्या भविष्यति । वैमानिकनिकायानां स्वर्गादुत्तारकारणम् ॥ ९४ ॥ भविष्यति कुमारो ऽया रत्नजालनिभालनात् । उदाररत्नभाकारमध्य सद्धर्मदेशनः ॥ ९५ ॥ सुतो serr भविता भावद्वैश्वानरनिरीक्षणात् । भव्यलोकात्मकल्याण शुद्धिनिर्माणकारणम् ।। ९६ ।। दृष्टा चतुर्दशस्त्रमा यदेव्या तत्तदङ्गजः । सं चतुर्दशरज्ज्वात्मलोकाग्र्यं पदमाप्स्यति ॥ ९७ ॥ एवं निशम्य रम्यं तन्नृपः कर्णामृतं वचः । ददौ दुकूलताम्बूलापारं पारितोषिकम् ।। ९८ ।। सभालोकं विसृज्याथ पृथ्वीनाथो यथोचितम् । सनाथं श्रीजयादेव्या जगामान्तःपुरं मुदा ॥ ९९ ॥ अथोत्थाय स्वयं देव्या सज्जितं विष्टरं नृपः । अलंचक्रे ततः सापि प्रियादेशादुपाविशत् ॥ १०० ॥ रोमाञ्चिततनोर्देव्याः पुरः स्फुरितसमदः । नैमित्तिकोपदिष्टानि जगौ स्वफलानि सः ॥ १०१ ॥ इदं ते कथितं नाथ भूयादवितथं वचः । इत्युक्ा शेखरीचक्रे करौ सा कमलेक्षणा ।। १०२ ॥ इत्थं पुत्राश्रितैः प्रीतिभाषितैर्भर्तृभार्ययोः । दिनाः कालकलामाना जग्मुः सौख्यमया रयात् ॥१०२॥ गर्भस्याद्भुतमाहात्म्यदाविव्याविभपव्यथाः । २६३ तस्या अङ्गे तथा द्रङ्गे न बबूनुस्तदा कचित् ॥ १०४ ॥ प्रभोः प्रभावतस्तस्याः सौवस्थाजिरमादरात् । मार्जयांचक्रिरे वायुकुमार्यो वर्षभक्तयः ।। १०५ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy