________________
श्रीवर्धमानसिविरचितं [स..R-RN इयं पुनर्जयादेवी स्फुटानेताललोक्त । तलाय त्रिनयनाथं स जिनं जनयिष्यति ॥ ८२॥ यद्देव्या ददृशे दन्ती चतुर्दन्ती शुभाननः । तच्चतु:शुद्धधर्मोपदेष्टास्या भक्तिा सुतः ॥ ८३ ॥ गमिष्यति सुतो देव्या वृषभस्य निराक्षणात् । क्षेत्रे सिमन्भारले बोधिवीजवानिमित्तताम् ॥ ८४ ॥ मृगेन्द्रमार्गणादेना नन्दन पालयिष्यति । दुःकर्मकरिनिर्भज्यमानान्भन्यवनस्पतीन् ॥ ८५ ॥ एतस्याः साभिषेकश्रीदर्शनानन्दनः पुनः । सांवत्सरं ददान श्रियं पुण्या करिष्यति ॥ ८६ ।। अमुष्या भविता सूनुः प्रसूनसखिलोकनात् । मुरासुरनराधीशैपौलौ धृतपदः सदा ॥ ८७॥ पूर्णेन्दुदर्शनाच्या चन्दनो नेववन्दक वास्यते वीतरागात्मा मित्वं कुकलाके मुदम् ॥१८॥ मार्तण्डमण्डलालोकात्मनुस्या भविष्यति ।. मार्तण्डमण्डलारुण्डभामण्लविभूषणः॥ ८९ ॥ ध्वजस्य दर्शनाद्देव्यास्तनुजन्मा तनिष्यते। स्वं प्रभुत्वं पुरःस्फूर्जदिव्यधर्मध्वजश्रिया ॥ १० ॥ कलशालोकनारपुनः मुहत्तो ऽस्याः करिष्यति ।। उत्तुङ्गोज्ज्वलसद्धर्ममासादशिखरस्थितिम् ॥९१ ।। विहरिष्यति पुत्रो ऽस्याः कमलाकरदनात् । सुरसंचारितस्वर्णसरोजस्थापितक्रमः ॥ ९२ ॥ गम्भीरस्तनयो देव्या रत्नाकरनिरूपणात् । .. केवलालोकरत्नस्य स्थानमईन्भविष्यति ॥ ९३ ॥