________________
सि.२. ४६-५७].
वासुपूज्यचरितम्
शड़े कथयितुं पासरः साग्रस्थमैसत ॥ ४६ ।। गम्भीरो ऽहमिव वर्भावीति गदितुं किल ।। रनाकरमुपेतं सा पश्यति स्म नृपप्रिया ॥ ४७ ।। निर्भाग्यैर्दुर्लभस्त्वद्भर्मद्वदेष भविष्यति । इतीव शंसितुं प्राप्तं विमानं सा व्यलोकयत् ॥ ४८॥ त्वद्भूर्भावी जगभूषा महदेष इति ध्रुवम् । आख्यातुमामतं रत्नस्थालयालोकते स्म सा ॥४९॥ कर्मेन्धनानि त्वत्सूनोऱ्यानं धक्ष्यत्यहं यथा । इतीच वक्तुमग्रस्थं सानिं निघूममैक्षत ॥ ५० ॥ . समालोकत तत्कालमुन्मेषान्तरितेष्वसौ। मुखे विशन्ति वस्तूनि स्वप्जेष्वेवं चतुर्दश ॥ ५१ ।। अथाशु निद्रापर्यन्ते पर्यङ्कादियमुत्थिता । पत्युश्चकार चतुरा चादुवाचां प्रपञ्चनम् ॥ ५२ ॥ सोच पृथ्वीभुजि शीतित्रुषि संजातमागरे। .. स्वप्नांश्चतुर्दश स्पटनदृष्टानचीकयत् ।। ५३ ।। अमन्दानन्दसंदर्भगर्भ भूपतिरभ्यधात् । स्वप्नैरेभिः सुत्तो देवि दिव्यस्तव भविष्यति ॥ ५४॥ इहान्तरे वितस्तार तारस्तूर्यशुभध्वनिः । इमं च रुचिरं श्लोकं पेठुर्मङ्गलपाठकाः ॥ ५५ ॥ पूर्वाद्रिचूडागर्भस्थो जगत्रितयपावनः । भास्वामेष भुवो भर्ता भक्तात्तव नन्दनः ॥ ५६ ॥ इमामुपश्रुति श्रुत्वा दधती द्विगुणां सुदम् । बबन्ध शकुममन्धि पृथ्वीवल्लभवल्लभा ॥ ५७ ॥ सद्गर्भमूषिते देखि धन्ये सौघं विभूषय ।