________________
श्री वर्धमानसूरिविरचितं [स. ३. ५८-६९ ]
इति राज्ञाभ्यनुज्ञाता ययावन्तः पुरं जया ॥ ५८ ॥ तस्मिन्नेव क्षणे जातासनप्रचलनेरिताः । परिज्ञायावधिज्ञानादाद्यं कल्याणिकं प्रभोः ॥ ५९ ॥ आवासे वसुपूज्यस्य द्वात्रिंशत्रिदशेश्वराः । आगत्य स्तवनं चक्रुर्गर्भस्थस्य जिनेशितुः ॥ ६० ॥ युग्मम्॥ जय त्रिभुवनाधीश ज्ञानत्रयनिकेतन । गर्भस्थो ऽपि सतां तुष्ट्यै घनान्तर इवांशुमान् ॥ ६१ ॥ भवाम्भोधेः परं पारमिवान्त्यं गर्भमाश्रितः ।
२६०
कस्य नाश्रयणीयो ऽसि जगत्रितयतारक ॥ ६२ ॥! जये देवि नमस्यासि यस्याः कुक्षी जगत्पतिः । कल्पद्रुर्यत्र जायेत सा स्तुत्या वनभूरपि ।। ६३ ।। स्त्रीषु त्वमेव धन्यासि जननी या जिनेशितुः । पूर्वैव श्लाघ्य दिक्षु यस्यामुदयते रविः ॥ ६४ ॥ जिनं तज्जननीं चेति स्तुत्वा नत्वा च भक्तितः । पुष्पबन्धुरगन्धाम्बुवृष्टिविस्तारचारवः ॥ ६५ ॥ नन्दीश्वरवरे कृत्वा स्पष्टमष्टाहिकोत्सवम् । धन्यंमन्या दिवं जग्मुः सर्वे गीर्वाणपुङ्गवाः ।। ६६ ॥ ॥ युग्मम् ॥
स्वमेष्विन्द्रेषु चागत्याप्यतृप्त इव भानुमान् । प्रभोः कल्याणिके प्राप्तः पुनरप्युदयच्छलात् ॥ ६७ ॥ तदावतीर्णमालोक्यान्तरध्वान्तभिदं विभुम् ।
तमो बाह्यमपि त्रस्तं निःशङ्कनः कश्मलाः क नु ॥ ६८ ॥ विज्ञायेव प्रभोराचं कल्याणिकमहोत्सवम् । राजीविन्यो जगुर्भुङ्गनिनादैर्ननृतुः ॥ ६९ ॥