________________
~
~
~
[स.३. २३-३४] वासुपूज्यचरितम्
२५७ एकदागच्छदुग्रोष्मा ग्रीष्मो ऽत्युग्रत्वलब्धये ॥ २३ ॥ हेलया कवलीकृत्य सकलामपि यामिनीम् ।। स्वाद्वैतमिव निर्मातुमवर्धत दिनोचयः ॥ २४ ॥ प्रतापाधिक्यमालोक्य द्विषतो दिवसेशितुः। दुःखादिव कृशीभावमभजन्त भृशं निशाः ॥ २५ ॥ सरोवरसरिद्वारिशोषे तोषेण कूपगाः। विश्वोपकारसाम्राज्यालापुराफ्स्तुषारताम् ॥ २६॥ आकर्षन्ति ध्रुवं वारि करा भानोधरातलात् । जलैः क्लिनानि यत्सङ्गादङ्गान्यङ्गभृतां यतः ॥२७॥ तप्ता तपनतापेन च्छायापि हि महीरुहाम् । ययौ मध्यंदिने मूलमालवालाम्खुशीतलम् ॥ २८ ॥ यस्तः शान्तये सेव्यः सा ऽपि ततो मरुद्ववौ । इति भूपो हिमश्वासप्रियासत्तिं न सो ऽमुचत् ।। २९ ।। तदा च पूरयित्वायुः सागरोपमविंशतिम् ।, ज्येष्ठे नवम्यां शुक्लायां चन्द्रे शतभिषग्गते ॥ ३०॥ स प्राणताजयाकुक्षि प्राप पद्मोत्तरामरः । शुक्तिं मुक्तोद्भवमयः पयःकण इवाम्बुदात् ॥ ३१ ॥
॥युग्मम् ॥ तदात्यद्भुतसंभूतभर्मभित्तिमनोरमे। नालाश्मस्तम्भावष्टम्भरत्नपाश्चालिकाश्चिते ॥ ३२ ॥ वर्तुलामलमुक्तावचूलितोल्लोचमञ्जुले । अस्तोकालोकमाणिक्यदीपध्वस्ततमस्तमे ॥ ३३ ॥ उत्फुल्लमल्लिकापुष्पपकरामोदसंपदि । दह्यमानायकस्तूरीकर्पूरागुरुधूपने ॥ ३४ ॥
A
.