________________
श्रीवर्धमानसूरिविरचितं [स. ३. ११-२२]
मोहध्वान्तद्रुहो दीपा इव मोक्षाध्वदर्शने ॥। ११ ॥ इक्ष्वाकुकुलराजीवलक्ष्मीसंजीवनौषधम् । तत्र प्रतापोष्णवास्रुर्वसुपूज्यो ऽभवनृपः ।। १२ ।। शोषिता यत्प्रतापेन द्विषतां शौर्यवल्लयः । पत्रैरिवासिभिर्भ्रष्टै रणारण्यमपूरयन् ।। १३ ।। कामधुग्दुग्धनिधते चिन्तामणिशिलातले । कल्पद्रुकुसुमाकीर्णे यद्दान श्रीर्नटत्यहो ।। १४ ।। नित्यं यदीयधर्मस्य वर्धमानस्य सर्वतः । चैत्यश्रियः स्म तन्वन्ति न्युञ्छनानि ध्वजाञ्चलैः ॥१५॥ निःसृतां रणरेशुभ्यः स्नातामर्थिमुदश्रुभिः । चैत्यधूपनधूमैर्यः प्रियां कीर्तिमधूपयत् ।। १६ ।। तस्याग्रमहिषी जज्ञे स्वर्गस्त्रीजायिनी जया ।
जितं भासेव वक्रेन्दोर्नासीद्यस्याः स्मितं बहिः ।। १७ ।। त्रैलोक्यस्त्रीजयप्राप्तपताकात्रितयोपमम् ।
२५६
み
कम्बुकण्ठ्या ध्रुवं कण्ठस्तस्या रेखात्रयं दधौ ॥ १८ ॥ अङ्गुलीपल्लवोल्लासि नखांशुकुमुमाश्चितम् ।
असेवि भूपदृग्भृङ्गैर्यस्या बाहुलतायुगम् ।। १९ ।। काञ्चीपट्ट नितम्बे sस्ति मदधःस्थे ऽपि नो मयि । इतीव दुःखितस्तस्या मध्यदेशः कृशो ऽभवत् ।। २० ।। अब्जे एव क्रमौ यस्या न हंसो यदसेवत । गतिनिर्जयलज्जैव जानीमस्तत्र कारणम् ।। २१ ॥ सत्यप्यन्तः पुरे तस्यां रेमे क्ष्मापतिमानसम् । लक्ष्ये नक्षत्रलक्षे ऽपि चक्षुश्चन्द्रतनौ व्रजेत् ।। २२॥ तस्य विश्वम्भराभर्तुः प्रतापमिव सेवितुम् ।