________________
श्रीवर्धमानसूरिविरचितं [स. २.२२५३ - २२६४ ]
रागद्वेषमदान्धेन ये ऽर्दिताः क्षमयामि तान् २२५३ ।। अपराधं क्षमन्तां मे ते ऽपि सर्वत्र जन्तवः । सर्वभूतेषु मे मैत्र्यमास्तां वैरं न कुत्रचित् ।। २२५४ ॥ महाव्रतेषु यः कश्चिदतीचारः कृतो मया ।
२५२
मिथ्या मे दुष्कृतं तत्र भवताद्गुरुसाक्षिकम् || २२५५ ।। राशावव्यवहाराख्ये ऽनन्तजन्तुप्रघट्टनात् ।
यया मे कर्म कृत्तं तां पीडामप्यनुमोदये ।। २२५६ ।। जिनानां प्रतिमा चैत्यभृङ्गारमुकुटादिषु ।
यो मे पृथ्वीमयः कायो जज्ञे तमनुमोदये || २२५७ ॥ जिनस्नानेषु पात्रेषु दैवादुपकृतो भवेत् । यो मे जलमयः कायः प्रायस्तमनुमोदये ।। २२५८ ॥ धूपाङ्गारे च दीपे च जिनानां पुर एवं यः । मम तेजोमयः कायो जातस्तमनुमोदये ।। २२५९ ॥ धूपोत्क्षेपे ऽर्हतां सङ्घ श्रान्ते वा तीर्थवर्त्मसु । यो मे वायुमयः कायो ववौ तमनुमोदये ॥ २२६० ॥ मुनीनां पात्रदण्डेषु जनार्चाकुसुमेषु च । मम द्रुममयः कायो यो भूत्तमनुमोदये ।। २२६१ ॥ कापि सत्कर्मयोगेन जिनधर्मोपकारकः । आसीत्रसमयः कायो यो मे तमनुमोदये ।। २२६२ ॥ इत्यनन्तभवोपात्तं दुष्कृतौघमगईत ।
कदाचिद्रचितं किंचित्सुकृतं चान्वमोदत ।। २२६३ ॥ शरणं तीर्थकृत्सिद्धसाधुधर्मा भवन्तु मे ।
इत्यालापमथः सो ऽथ चतुःशरणमाश्रितः ।। २२६४ ॥ · परित्यक्तनिदानो ऽसौ मृत्युजीवितनिःस्पृहः ।