________________
[स. २. २२१८-२२२८] वासुपूज्यचरितम्
शुद्धश्रद्धानिधिः साधुर्विंशतिस्थानकान्यथ । संस्पृशन्नर्जयामास तीर्थकुन्नामकर्म सः ।। २२९८ ॥
तथाहि ।
२४९
सर्वज्ञे सर्वजन्तूनां वन्धौ श्रेयोध्वदर्शिनि । नमनं स्तवनं पूजा नुमोदनमसौ व्यधात् ।। २२१९ ॥ क्षीणकर्मसु लोकाग्रस्थितेषु स्थिरमानसः । अयं ध्यानविधानेन सिद्धेष्वाराधनां दधौ ॥। २२२० ॥ श्रीसङ्घरूपे सिद्धान्तरूपे प्रवचने मुनिः । आज्ञानतिक्रमेणैष स्वशक्त्या भक्तिमानभूत् ।। २२२१ ॥ अयं महाव्रताधारे शुद्धधर्मोपदेशिनि । आदेशवश्यचित्तत्वादच व्यचरयगुरौ ।। २२२२ । समवायाङ्गविज्ञेषु वयोव्रतमहत्स्वपि । स्थविरेषु स्थिरामेष भक्ति भेजे भवच्छिदे ।। २२२३ ॥ श्रेयान्सुत्रधरादर्यधरः सूत्रार्थभृत्ततः ।
इति क्रमाद्व्यधाद्भक्ति कृती श्रुतधरेष्वसौ ।। २२२४ ॥ तपस्तीव्रं वितन्वत्सु तपस्विषु तपोनिधिः । शुश्रूषामेष निःशेषां शुद्धश्रद्धाघरो ऽकरोत् ।। २२२५ ।। पठने गुणने ऽर्थे च सिद्धान्तस्य मुहुर्मुहुः ।
चिरं तदेकचित्तत्वादुपयोगमयं दधौ ।। २२२६ ॥ सर्वज्ञधर्मसर्वस्वे सिद्धिसंधिविधायिनि ।
अयं विरचयामास सम्यक्ते निश्चलं मनः ।। २२२७ ।। ज्ञानस्य. ज्ञानपात्रस्य विनये गुणचक्रिणि ।
नातिचारं चकारायमन्तरायं शिवश्रियः ।। २२२८ ॥ भवकूपारपारेषु व्यपारेषु व्रतश्रियाम् ।